________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१२
चरक-संहिता। ( कतिधापुरुषीयं शारीरम् खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाष्टमः।
भूतप्रतिरुदिष्टा विकाराश्चैव षोड़श ॥ समानः। मनोऽहरवयजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति। अत्रैष देवः स्वप्ने महिमानमनुभवति। यदृष्टं दृष्टमनुपश्यति । यत् श्रुतं श्रुतमेवार्थमनुशृणोति । देशदिगन्तरैश्च प्रत्यनुभूतं पुनःपुनः प्रत्यनुभवति। दृष्टश्चादृष्टश्च श्रुतश्चाश्रुतञ्चानुभूतञ्चाननुभूतञ्च सव्वं पश्यति सन् पश्यति। इति स्वमस्थानः। अत्र समानोच्छासनिश्वासाभ्यामनुमीयतेऽयं स्वपितीति । चतुर्विंशतिकस्य मनसि दशेन्द्रियाणि लीयन्ते, प्राणाः पञ्च जाग्रतीति । तद्विशिष्टः षड्धातुः पुरुषो देवः स्वप्ने मनसा स्वमान् पश्यति । इति । तहि जागरितस्थानस्त्वेष चतुर्विशतिको भूतात्मा किमै न्द्रियकखाद व्यक्तो. ऽभिधीयते, न च व्यक्तः ? यतो लिङ्गग्राह्यश्चातीन्द्रियश्च मनोदशेन्द्रियाणि लिङ्गग्राह्याणि दर्शितानि स्वस्वकर्माणि लिङ्गानि खरद्रवचलोष्णाप्रतिघातलिङ्गानि भूम्यादीनि पञ्च भूतानि। तेषां गन्धादयोऽर्थाः स्वकाय्यगन्धादि लिङ्गानि। लिङ्गान्येषां व्यक्तान्यन्द्रियकाणि । इति पञ्चमप्रश्नोत्तरम् ॥१६॥
गङ्गाधरः-तत्राग्निवेशः पप्रच्छ, प्रकृतिः का विकाराः के इति । यतः सम्भूत एष चतुविंशतिकोऽतीन्द्रियो लिङ्गग्राह्यश्च तेषां चतुर्विशतेः सम्भवहेतुषु का प्रकृति म धातुर्विकाराश्च के धातव इति। तत्रोत्तरमाह-खादीनि इत्यादि। उद्दिष्टं पूर्व प्रकृतिश्चाष्टधातुकीति लोके पुरुषे च भूतानाष्टौ प्रकृतयः खादीन्युक्तानि पूर्वम्। महाभूतानि खं वायुरनिरापः क्षितिस्तथा। शब्दः स्पर्शश्च रूपश्च रसो गन्धश्च तद्गुणाः। इति । तानि खादीनि शब्दमात्रगुण आकाशः स्पर्शमात्रगुणो वायू रूपमात्रगुणं तेजो रसमात्रगुणा आपो गन्धमात्रगुणा क्षितिरित्येतानि। बुद्धिमहत्तत्त्वं जीवात्मा विषमत्रिगुणलक्षणा विद्यावुद्धिः प्रज्ञा। अव्यक्तन्तु शक्तिब्रह्मगायत्रीश्वरविद्याविद्यात्मकपञ्चब्रह्मपुरुषकालक्षेत्रज्ञप्रधानानीत्येतत्समुदायात्मकं समत्रिगुणलक्षणं संहतरूपम्। अहङ्कारोऽहमित्यभिमानहेतुमेलिनविषम त्रिगुणलक्षणस्त्वविद्याबुद्धिः। स चेह गणनायां खमपेक्ष्याष्टमो न सगै। सर्गे ह्यव्यक्तमहदहकारखवायुज्योतिरभूमय इति। इत्यष्टधातुकी भूतप्रकृतिरुविष्टा पूर्व प्रकृतिश्चाष्टधातुकीत्युक्तम्। 'विकाराश्चैव षोडशेति यदिहोद्दिष्टम्, तान् विकारानाह
चक्रपाणिः-"प्रकृतिः का विकाराः के" इत्यस्योत्तरम्-- खादीनीत्यादि। खादीनि सूक्ष्म
For Private and Personal Use Only