________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१८११ तदैन्द्रियकमुच्यते, तद्वाक्तम् । अतोऽन्यत् पुनरनन्द्रियकमव्यक्तम् । अनैन्द्रियकन्तु लिङ्गग्राह्यमतीन्द्रियं क्षेत्रको नामात्मा हि लिङ्गग्राह्योऽतीन्द्रियश्च । पृथक् प्रधानादि-परमात्मान्तं सर्वमतीन्द्रियं न लिङ्गग्राह्यमित्यत एवंविधम् अव्यक्तं न तत् सर्व सुषुप्तिस्थानश्वात्मा प्राज्ञो लिङ्गग्राह्योऽतीन्द्रियश्चाव्यक्तम् उच्यते। उक्तन्तु प्रश्नोपनिषदि-यथा सौम्य सौायण वयांसि वासोवृक्षं संप्रतितिष्ठन्ते। एवं ह वै सर्च परमात्मनि सम्पतितिष्ठते। पृथिवी च पृथिवीमात्रा चापश्चाम्मात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यश्च श्रोत्रश्च श्रोतव्यश्च घ्राणश्च घ्रातव्यश्च रसश्च रसयितव्यश्च वक् च स्पर्शयितव्यञ्च हस्तौ चादातव्यञ्चोपस्थश्वानन्दयितव्यश्च पायुश्च विसज्जयितव्यश्च पादौ च गन्तव्यञ्च बुद्धिश्च बोद्धव्यश्चाहङ्कारथाहकार्यश्च चित्तश्च चेतयितव्यञ्च तेजश्च विद्योतयितव्यश्च प्राणश्च विधारयितव्यश्च ति। एप हि द्रष्टा श्रोता घ्राता रपयिता मन्ता वोढ़ा कर्ता विज्ञानात्मा पुरुषः। स परेऽक्षर आत्मनि सम्पतितिष्ठते परमेशवरं प्रतिपद्यते। स यो ह वै तदश्रोत्रमशरोरमलोहितं शुभ्रातारं वेदपते सौम्य स सर्वज्ञः सों भवति तदेष श्लोकः। विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्पतितिष्ठन्ति यत्र । तदक्षरं वेदयते यस्तु सौम्य स सव्वज्ञः सव्वमेवाविवेश । इति । एवञ्च स्वमस्थानोऽप्यात्मा पड़धातुः पुरुषो भूतात्मा खलु शब्दतन्मात्रादिपञ्चभूतोपाधिरव्यक्तात्मनारब्धस्तैजसो नामात्मा लिङ्गग्राह्योऽतीन्द्रियश्चेति अव्यक्तात्मोच्यते। तदुक्तश्च प्रश्नोपनिषदि-अथ हैनं पिप्पलादं सौर्यायणो गाग्यः पप्रच्छ, भगवन्नेतस्मिन् पुरुष कानि स्वपन्ति कान्यस्मिन् जाग्रति कतर एष देवः स्वमान् पश्यति कस्यैतत् सुखं भवति कस्मिन् नु सर्व सम्मति. ष्ठिता भवन्तीति। तस्मै स होवाच। यथा गाग्ये मरीचयोऽस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डले एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत् सर्च परे देवे मनस्येकीभवति। तेन तप पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयते। स्वपितीत्याचक्षते। प्राणानय एवैतस्मिन् पुरे जाग्रति । गाहेपत्यो ह वा एषोऽपानो व्यानोऽन्वाहाय्येपचनो यद् गाहे पत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणः। यदुच्छासनिश्वासावेतावाहुनी समं नयतीति प्रकारान्तरं व्यक्ताव्यक्तद्वयम् । लिङ्गग्राह्यमित्यनुमानग्राह्यम् । अतीन्द्रियमित्यनेन चेन्द्रियग्रहणायोग्यं यत् केनापि शब्दादिलिङ्गेन गृह्यते, तदव्यक्तम् । किन्तु यन्नित्यानुमेयं मनोऽहङ्कारादि तदेवान्यक्तम् ॥१६॥
For Private and Personal Use Only