________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८०६ अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः।
सदकारणवन्नित्यं दृष्टं हेतुमदन्यथा ॥ व्यतिक्रम्य न वर्तते। शीघ्रगत्वस्वभावो हि नैकस्य भवति विनान्यसंयोगम् । तस्मात् कर्तुः करणसंयोगात सर्व कर्मादिकं वर्त्तते तत् तु संयोगमृते किमपि कर्मादिकं नास्तीति। इति चतुर्थप्रश्नोत्तरम् ॥१५॥
गङ्गाधरः-अथ तत्राग्निवेशः पप्रच्छ । स नित्यः किं किमनित्यो निदशित इति । यदिदानीं सर्गावस्थायां न होको वत्तेते भावो वर्तते नाप्यहेतुकः। शीघ्रगखात् स्वभावात् तु भावो न व्यतिवर्तते, तर्हि स पुरुषः किं नित्योऽथ किमनित्यो निदशित इति । एवं पृष्टो गुरुराह–अनादिरित्यादि। यः पुरुषोऽनादिरहेतुक आदिहेतुभूत आदिः पुरुष एवं नास्ति यस्य सोऽनादिः पुरुषो नित्यः। विपरीतस्तु हेतुज इति हेतुहतुभूतपुरुषजः पुरुषो विपरीतोऽनित्य इति । तद यथा सदकारणवन्नित्यमिति-असद्वा इदमग्र आसीत् ततो वै सदजायत । तदात्मानं स्वयमकुरुत तस्मात् तत् सुकृतमुच्यते, इति य आत्मषटक आदिः परमः पुरुष उक्तस्तदब्रह्म तत् सदकारणवदनादिः पुरुषस्तत्सन्नित्यं दृष्टम् । विपरीतस्तु हेतु जो यथा-हेतुमदन्यथा। तदादिपुरुषहेतुकं यद्यत्तदन्यथा न नित्यम् इति। अथवा अनादिरादिहेतुः पुरुषो यस्य नास्ति स आत्मपटकः परमपुरुषः परमात्मा नित्यः। यतः सदकारणवन्नित्यं यद् यत् सद्वस्तु अकारण तत् सर्च नित्यम्। असदेवासत् प्राक् सर्गाद यदासीत् तन्नित्यम्। सर्गे सैव शक्तिर्नाम सत् तेजोऽभवदापोऽभवदन्नञ्चाभवत् तत् सदपि चाकारणं, तत्त्रयोपाधिर्गायत्री च सदकारणं, तस्मान्नित्यं सैव स्वयं परमात्मात्मषटकः पुरुषो. ऽभवत् अनादिरेव तस्मान्नित्यः । विपरीतस्तु हेतुजः । यो यो हेतुजः पञ्चब्रह्मपुरुषादिः स स विपरीतोऽनित्यः । यतो दृष्टं हेतुमदन्यथा । यत् सत् हेतुमत् तत् व्यतिवर्तते 'शीघ्रगत्व'स्वभावं न त्यजतीत्यर्थः। तेन, अहेतुक एवाभावो भवति, भावस्तु सहेतुकः। उक्तं हि-"उत्पत्तिहेतुर्भावानां न निरोधेऽस्ति कारणम्” इति। किंवा, शीघ्रगत्वादस्थिरत्वादभावो नावस्थान्तरमात्मनाशं प्रति गच्छतीति ग्रन्थार्थः ॥ १५ ॥
चक्रपाणिः-"स नित्यः किमनित्यः" इत्यस्योत्तरम्-अनादिरित्यादि । अनादिः पुरुषोऽध्यक्तरूपत्वादात्मशब्दाभिधेयः। विपरीत इत्यादिमान राशिरूपः पुरुष इत्यर्थः। अत्रैवानादेनित्यरवे शास्त्रान्तरसम्मतिमप्याह - सदित्यादि । सदिति त्रिविधसमये प्रमाणगम्यभावरूपम्। एतेन, प्रागभावस्याकारणवतोऽप्यभावरूपतयाऽनित्यत्वं न व्यभिचारकम् । हेतुजमन्यदपि भावरूप. मिति योजनीयम् । तेन, हेतुजस्यापि प्रध्वंसस्य विनाशिवं परिहृतं भवति ।
२२७
For Private and Personal Use Only