________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०८
चरक संहिता। कतिधापुरुषीयं शारीरम् नैकः प्रवर्तते कर्तु भूतात्मा नाश्नुते फलम् । संयोगाद वर्त्तते सर्व तमृते नास्ति किञ्चन ॥ न को वर्त्तते भावो वर्त्तते नाप्यहेतुकः ।
शीघ्रगत्वात् स्वभावात् तु भावो न व्यतिवर्त्तते ॥ १५॥ कार्येन्द्रियार्थानां बयो वै बुद्धयः स्मृताः। आत्मेन्द्रियमनोऽर्थानामेकैकसनिकर्षजाः इति। कुत एषां करणसंज्ञ त्यत आह–कत्तु रित्यादि। कत्त: करणैरेभिः सह संयोगजं कर्म भवति हस्तपादादीनां पञ्चानां कर्मायुक्तानि ग्रहणादीनि, श्रोत्रादीनां कर्माणि शब्दादिग्रहणानि। मनसः कम्म दशेन्द्रियाभिगमनचिन्तातक विचारादीनि। बुद्धिकर्म तु हानोपादानोपेक्षान्यतमावधारणादिकं समयोगादितः। वेदना सुखदुःखसंवेदनम् । बुद्धिः वहुविधा-श्रावणी खाची चाक्षुषी चेत्येवमादिः। कर्तुश्चतुर्विंशतिकपुरुषस्य करणमनोबुद्धग्रादिभिः सह संयोगजे ति लिङ्गविपरिणामाद योजना।।
ननु कत्तु रेव कर्म किं न स्यादित्यत आह-नैक इत्यादि । एको भूतात्मा खल्वात्मकृतपञ्चभूतोपाधिरव्यक्ताख्यात्मारब्धप्रत्यगात्मपुरुषो न कर्त्त क्रियां न निष्पादयितु प्रवर्त्तते फलश्च नाश्नुते नामोति विना करणः तथा खभावात् । करणैः सह संयोगात् तु भतात्मनः सर्व कर्मवेदनाबुद्धिश्चेत्येतत् सर्व वर्तते। कस्मान्नैकः प्रवर्तत इत्यत आह-न हेोक इत्यादि। हि यस्मादिह सर्गावस्थायामेकः केवल एको भावो न वर्तते विनान्यसंयोग, नाप्य हेतुकोऽपि भावो वर्तते। सर्बो हि भावो ह्यनेकभावमेलनेनैकरूपो हेतुजश्च वर्त्तते। न च शीघ्रगलात् स्वभावान व्यतिवर्त्तते। शीघ्रगत्वस्वभावं संयोगजमिति कर्मणा वेदनया बुद्धया च योज्यम् । नाइनुते फल.मेक इति योज्यम् । एक इति निष्करणः। संयोगाद् वर्तत इति करणसमुदायादुरपद्यते। तमृत इति संयोग बिना।
अत्रैव सामग्रीजन्यत्वे सर्वकार्याणामुपपत्तिमाह-न ह्यक इत्यादि। एको भावः कारणरूपः सहकारिकारणान्तररहितो न कार्य करणे वर्तत इत्यर्थः। एवं तावदेककारणं कार्य न वर्त्तते। कार्यञ्च हेतु विना न भवतीत्याह-वर्तते नाप्यहेतुक इति। हेतु विना उत्पत्तिधर्मो न वर्त्तते न भवतीत्यर्थः। तेन, करणयुक्तात्मजन्यं कार्य न केवलादात्मनो हेतुरूपाद भवतीत्युक्तं भवति । अथ हेतु विना चेद्भावो न भवतीति, तत् किमभावेऽपि शारीराणां भावानां हेत्वपेक्षा, न वेत्याह-- शीघ्रगेत्यादि । शीघ्रगत्वात् स्वभावात् लक्षितोऽभावो न स्वभावं * त्वभाव इति वा पाठः।
For Private and Personal Use Only