SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः] शारीरस्थानम् । १८०७ पश्यतोऽपि यथादर्श संक्लिष्ट नास्ति दर्शनम् । तद्वज्जले छ वा कलुषे चेतस्युपहते तथा ॥ करणानि मनो बुद्धिर्बद्धिका न्द्रियाणि च। कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च ॥ धीधृतिस्मृतिरूपज्ञानवत्वेन वहिःप्रशखा शः। तस्य ज्ञानं चेतनाधीधृतिस्मृत्यहङ्काररूपं करणेोगात् प्रवर्तते वहिर्नानारूपेणाभिव्यज्यते शत्वेऽपि करणानामवैमल्यादनैर्मल्यादयोगाद वा न तज्ज्ञानं वहिः प्रवर्तते। कस्मात् ? तत्राह–पश्यतोऽपीत्यादि। हि यस्मादाद» संक्लिष्टे मलिने स्वं पश्यतो जनस्य दर्शनं प्रतिमूने भवति, यथा यद्वत् कलुषे चाविले जले स्वं पश्यतो जनस्य प्रतिमूर्त्तर्दशनं नास्ति, तथा चेतसि मनस्युपहते ज्ञस्य ज्ञानस्य प्रवृत्ति स्ति। मनो हि सर्वकरणानां प्रयोजकखात् प्रधानं तस्मिन्नुपहते हि शेषाणि करणानि न स्वातन्त्राणार्थेषु प्रवत्तितु प्रभवन्ति । इन्द्रियार्थभूतमनसां न ज्ञानं तत् पूर्वाध्याये निर्विकारः परस्वात्मेति श्लोकव्याख्याने दर्शितम्। कानि पुनः करणानि ज्ञानसाधने भवन्तीत्यत आह-करणानीत्यादि। इह चतुर्विशतिकादित्रिविधपुरुषस्य जागरितस्थानादेः प्रत्यगात्मनः प्रकरणात् तच्चतुर्विंशतिभावान्तर्गतमनोबुद्धिभौतिकदशेन्द्रियाणि करणानि, तत्र बुद्धिपदेन सुषुप्तिस्थानस्य प्राज्ञस्य प्रज्ञा तज्जाताहकारख्या बुद्धिः स्वमस्थानस्य तैजसस्यात्मनः इति द्विधा बुद्धिरवरुद्धा। तत्र जागरितस्थानस्य वैश्वानरस्यात्मनो विद्याबुद्धिमहत्तत्त्वजातबुद्धिस्त्रिधा धीः धृतिः स्मृतिश्चाहङ्कारजाता बुद्धिरभिमानलक्षणा। गर्वबुद्धिर्याहकारबुद्धिः अयोगादिजातबुद्धिः । महतो जातो योऽहकारस्तस्य पर्यायः-- अज्ञानमविद्याहम्मतिरभिमन्ता च। तज्जातो योऽहकारस्तस्य पर्यायः-- गव्वोऽभिमानोऽहकार इति। एतच्चतुर्विधबुद्धिरात्मेन्द्रियमनोऽर्थसनिकर्षाद् बहुविधा प्रवर्तते। तदुक्तं प्राक्। भेदात् न वर्त्तते ज्ञानमिति योजना। ननु यद्ययमात्मा ज्ञः, तत् किमित्यस्य सर्वज्ञानं न भवतीत्याहपश्यतोऽपीति चक्षुष्मतोऽपीत्यर्थः । तत्त्वमिति दर्शन विशेषणम्। तेन, म्लाने दपणे जले वा दर्शनं भवदप्ययथार्थग्राहितया न तत्त्वरूपं भवतीत्यर्थः। चेतसीत्युपलक्षणम् । तेन चक्षु. रादावप्युपहत इति ज्ञेयम्। प्रकरणप्रस्तावात् ज्ञाने कर्मणि वेदनायाञ्च यावत्करणमात्मनस्तदाह-करणानीत्यादि। * तत्त्वं जले इति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy