________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०६
चरक-संहिता। कतिधापुरुषीयं शारीरम् आत्मा ज्ञः करणैर्योगाज ज्ञानं तस्य प्रवर्त्तते ।
करणानामवैमल्यादयोगाद वा न वर्तते ॥ सर्वविद् यः। प्रधानक्षेत्रापतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुरिति । न च पुरुषप्रभवप्रश्नेऽप्यप्रस्तुतः परमात्मप्रभवप्रश्नः। चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञक इत्यत्र चेतनाधातुखेन परमात्मनोऽवरोधात् । तस्मात् परमात्मन आत्मयोनेः स्वयम्भुवः प्रभव उत्पत्तिकारणं न विद्यते । कस्मात् ? अनादिखादकारणखात्। न हि परमात्मनः परमव्योम्नः प्रभवकारणम् अस्ति । शक्तिहि मूलं ब्रह्म सगेकाले तेजोऽवन्नानि सृष्ट्वा तदुपाहिता सती गायत्री भूला स्वयमेव शान्तिर्विद्या प्रतिष्ठा निवृत्तिश्चेति चतस्रः शक्तयो भूवा चतुहः परमव्योमरूपः परमात्मा शिवो बभूवेति तस्यानादिखात् प्रभवकारणं किमपि नास्तीति। स एव परमात्मा पुनरेवं क्षेत्राप्राज्ञतैजसवैश्वानररूपश्च स्वयं बभूवेति संहतरूपचेतनाधात्पुरुषस्य पड़ धातुपुरुषस्य प्रभवं केचित् परमात्मानमाहुरपरे प्रभवं नाहुः। राशिसंशस्तु पुरुषो मृतस्य पड़ धातुपुरुष लीयते परलोकञ्च याति ततः पुनर्मोहेच्छाद्वेषकृतकर्मफलधर्माधर्माज्जायते तासु तासु योनिषु तैस्तै:ज रिति मोहेच्छाद्वेषकर्मज उच्यते। इति तृतीयप्रश्नोत्तरम् ॥१४॥
गङ्गाधरः-तत्राग्निवेशः पप्रच्छ, किमज्ञो ज्ञः स इति। स पुरुषः किमशोऽथ ज्ञ इति। तत्रोत्तरमाह-आत्मा ज्ञ इत्यादि। इहात्मा जागरितस्थानः चतुविंशतिकः पुरुषः । स तु ज्ञः।न परमात्मा। कस्मात् ? मूलभूतज्ञो हि परमात्मा ज्ञानशक्तिमत्त्वाज ज्ञानाख्यगुणवत्त्वात् । तस्य त्रिगुणजातगुणाभावेन निगुणववचनात् । शः कालकारो गुणीति हुक्तम् । क्रमेण तदनुप्रवेशात् पञ्चब्रह्मपुरुषकालक्षेत्रक्षप्रधानाख्याः तत्समुदायरूपमव्यक्तश्च चेतनाधातुः पुरुषो ज्ञः । तदव्यक्तानुप्रवेशाच्च प्रज्ञया विशिष्टखात् प्राज्ञः सुषुप्तिस्थानोऽपि शस्त्रिगुणजातज्ञानरूपमहत्तत्त्वविशिष्टखात् । तत्प्रज्ञारब्धश्च पड़धातुः पुरुषः स्वमस्थानो महदहङ्कारज्ञानवत्वेनान्तःप्रशवाज ज्ञः। तत्पड़धात पुरुषारब्धस्तु चतुविंशतिकः पुरुष आत्मा जागरितस्थानोऽपि शः। महदहकारसम्भवकर्मजः। मोहाद्ध भावेषु इच्छा द्वेषश्च भवति, ततः प्रवृत्तिः, प्रवृत्तेर्धाधा, तौ च शरीरं जनयतो भोगार्थम् ॥ १४ ॥
क्रपाणिः-"किमज्ञो ज्ञः” इत्यस्योत्तरम्-आत्मेत्यादि। करणानीह मनोबुद्धीन्द्रियाणि ।
For Private and Personal Use Only