________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः शारीरस्थानम् ।
१८०५ मतं तत्त्वविदामेतद् यस्मात् तस्मात् स कारणम् । क्रियोपभोगे भूतानां नित्यः पुरुषसंज्ञकः ॥ अहङ्कारः फलं कर्म देहान्तरगतिः स्मृतिः। विद्यते सति भूतानां कारणे देहमन्तरा ॥ १३॥ प्रभवो न धनादित्वाद् विद्यते परमात्मनः।
पुरुषो राशिसंज्ञस्तु मोहेच्छाव षकर्मजः ॥ १४ ॥ निमेषकालाच्छीघ्रतरः सन् कृतमेव भग्नं तमेवोपैति न खन्यम्, तथा पुरुषो येन करणेन यत् कर्म कुरुते तत्फलं तेनैव कर्ता प्रामोति न खन्यमुपैति। इति तत्त्वविदां मतं, यस्मात् स कर्ता तस्मात् भूतानां क्रियोपभोगे नित्यः पुरुषसंज्ञकः कारणम्। भूतानां प्राणिनां देहमन्तरा देहमध्ये तस्मिन् पुरुषसंज्ञके कारणे सति वत्तैमानेऽहङ्कारः कम्मेणः फलं धमाधम्मरूपं तज्जनकं कम्मे च देहान्तरगतिमरणं स्मृतिश्च जातिस्मरणं विद्यते न वसति पुरुषे सर्वमेतद् वर्तते। इति द्वितीयप्रश्नस्योत्तरमिति ॥१३॥
गङ्गाधरः-अत्राग्निवेशः पप्रच्छ, प्रभवः पुरुषस्य क इति। एष त्रिविधः पुरुषः कस्मात् प्रभवति उत्पद्यते उत्पत्तिकारणं क इत्यस्य प्रश्नस्योत्तरमाहप्रभवो नेत्यादि। परमात्मन इति महतः परमव्यक्तमिति कठोपनिषदि श्रवणादिह जागरितस्थानात् स्वमस्थानाचात्मनः परमः श्रेष्ठ आत्मा परमात्मा नेह तुरीय आत्मा परमात्मा । त्रिविध पुरुषप्रभवप्रश्नस्योत्तरप्रस्तावादिति चेन्ना- . नादिखादिति हेतोरसम्भवात् । श्वेताश्वतरोपनिषदि चाव्यक्तस्य त्रिगुणलक्षणस्य प्रभवश्रवणाच्च । तद यथा । स विश्वकृद् विश्वविदात्मयोनिज्ञः कालकारो गुणी मा भवत्वेवम्। ततः किमित्याह-कृतं कर्म यागादि न फलरूपतयाऽन्यमुपैति । एवं सति देवदत्तेन कृतेन शुभकर्मणा न यज्ञदत्तादयोऽपि सुखभाजः स्युः, तस्मात् क्षणभङ्गिशरीरादतिरिक्तः कर्मकर्ता तत्फलभोक्ता चाम्तीति भावः। क्रियोपभोग इति क्रियायां तत्फलभोगेऽपि । भूतानामिति प्राणिनाम् । आत्मसद्भावे हेत्वन्तरमाह- अहङ्कार इत्यादि। एतेऽहङ्कारादयः स्थिर एव परमात्मनि सन्ति पूर्वापरकालावस्थायिवस्तुधर्मत्वादिति भावः। देहमन्तरेति देहं विना देहातिरिक्तकाले प्यहङ्कारो भवतीत्यर्थः ॥ १३ ॥
चक्रपाणिः- "प्रभवः पुरुषस्य कः" इत्यस्योत्तरम् । अनादीत्यादि। प्रभवः कारणम् । राशिसंज्ञक इति पड़ धातुरूपसमुदायश्चतुर्विंशतिराशिरूपः । मोहेच्छाव पजनितकर्मजः मोहेच्छाद्वेष
For Private and Personal Use Only