SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८०४ चरक-संहिता। कतिधापुरुषीयं शारोरम् कारणान्यान्यता दृष्टा कर्ता भोक्ता स एव तु। कर्ता हि करणयुक्तः कारणं सर्वकर्मणाम् ॥ निमेषकालाद भावानां कालः शीघ्रतरोऽत्यये । भग्नानाञ्च पुर्नभावे + कृतं नान्यमुपैति च ॥ कर्मणः फलं प्राप्तमन्ये सदृशा भावा नरा भुञ्जते। यदि मनोबुद्धाहङ्कार दशेन्द्रियपञ्चभूतानां स्वस्वकृतस्य कर्मणः फलं प्राप्तं तत्समुदायः पुरुषो । भुङ्क्ते न तु मनःप्रभृतिः स्वस्वकृतकम्मफलं भुङ्क्ते, तहिं दवदत्तादिनराज्जाताः पुत्रपौत्रादयः पारम्पर्य्यसमुत्था अनित्या यावज्जीवन्ति तावन्तं कालं प्राप्तं तत्तत्कालपरिणतस्वस्वकृतकर्मफलं भुञ्जते स्वस्वायुपोऽधिककालपरिणम्यकर्मफलन्तु न प्राप्तं न च तद भुञ्जते न च तत् समुदायोऽस्ति कोऽप्येको नित्यो भावो यो ह्यप्राप्य फलं भुझ्यते। तर्हि तत्कृतकर्मणः परिणम्यमानस्य फलमन्ये नरा भुञ्जते इति। अस्तु चैवमिति चत् तदाह-कारणेत्यादि। कतः क्रियानिष्पत्तौ कारणानामन्यान्यता भिन्न भिन्नता दृष्टा यथा कर्ता मनसा मनुते बुद्धमा बुध्यते चक्षुषा पश्यति श्रोत्रेण शृणोतीत्येवं कारणानां भिन्न भिन्नता दृष्टा, भोक्ता तु स एव कर्ता । कस्मात् ? कर्ता हीत्यादि। हि यस्मात् कर्ता करणैर्युक्तः सन् सर्वकर्मणां कारणं नित्यत्वात्। ननु तर्हि यत्करणेन यत् करोति तत्फलमन्येन किं न प्रामोतीत्यत आह-निमिषत्यादि। भावानाम् अत्यये कालस्तु निमेषकालादपि शीघ्रतरः। निमेषकालो यथा शीघ्र गच्छति ततोऽपि शीघ्र भावानामत्ययं कालः करोति तथातिशीघ्र भनानां तेषां पुनर्भावे कालो . परमतं दूपयित्वा स्वमतमाह- करणेत्यादि। करणस्य शरीरस्य परिणामिनोऽन्यान्यता दृष्टा । कर्ता चात्मा, स एव न विनाशीत्यर्थः। अत्रैव दृष्टान्तमाह-कर्ता हीत्यादि। यथानेकशिल्पवित् कर्ता करणेसी आयसीसंज्ञकयन्त्रादिभिः काष्ठपाटन-लौहघटनादि करोति, तथात्मापि इह इत्यर्थः। अथायमात्मसद्भावः स्थिरोऽस्तु, शरीरारम्भकाणां का गतिरित्याह-निमेषेत्यादि। भावानामिति शरीरादिभावानाम्। अत्यय इति विनाशे, शरीरस्य स्वाग्निपच्यमानस्य निमेषकालादपि शीघ्रं विनाशो भवतीत्यर्थः। अमीषाञ्च भावानां भग्नानां न पुनर्भावः पुनरागमनं नास्तीति। तेन, येन शरीरेण यत् कृतम्, तच्छरीरं तत्फलं न प्राप्नोतीत्युक्तं भवति। भय * करणान्यान्यता इति चक्रः । + भग्नानां न पुनर्भावः इति पाठान्तरम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy