________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८०३ न ते तत्सदृशास्त्वन्ये पारम्पर्य्यसमुत्थिताः। सारूप्याद ये त एवेति निर्दिश्यन्ते नरान्नराः॥ भावास्तेषां समुदयो निरीशः सत्त्वसंज्ञकः । कर्ता भोक्ता न स पुमानिति केचिद् व्यवस्थिताः॥ तेषामन्यैः कृतस्यान्ये भावैर्भावा नराः फलम्।
भुञ्जते सदृशाः प्राप्तं यरात्मा नोपदिश्यते ॥ गङ्गाधरः-तत्राह पुनः—न ते तदित्यादि। आदिपुरुषः सिद्ध एव चेतनस्तस्मात् तु ये सारूप्यात् समानरूपखेन चेतनामचेतना इत्येवं समधर्माणो जायन्ते ते तस्मादन्ये तत्सदृशाः पारम्पयंसमुत्थिता न ते त एवेति निद्दिश्यन्ते । निद्दिश्यन्ते यथा नरान्नरा जायन्ते गोगो रवादश्व इत्येवमादयो भावाः सारूप्यात् पारम्पयंसमुत्थितास्तत्सदृशा अन्ये। न तु त एवेति । तेषां निरीशोऽव्यक्ताख्यात्महीनसमुदायस्त्रयोविंशतिकः सत्त्वसंज्ञकः पुरुष उच्यते। सोऽव्यक्ताख्यः पुमान् न कर्ता न च भोक्ता भवतीति केचिदृषयो व्यवस्थिता इति । तेन चैतन्यादिज्ञानादिकमव्यक्तस्येव तत्पारम्पय्र्यसमुत्थितानाञ्च सिद्धमिति। तत्रोत्तरमाह-तेषामित्यादि। यैरेवं सदृशरूपेण पारम्पय्येसमुत्थानाद्भावानां चेतनजातवाच्चेतनत्वं सिद्धं नित्यश्चात्मा चेतनो नास्ति समुदायस्तु पुरुषः कर्ता भोक्ता भवति, तेषां मते अन्यैर्भावः कृतस्य
चक्रपाणिः-निरात्मवादिमतमुत्थापयति-न ते इत्यादि। अस्मिन् शरीरे ते क एव पृथिवीजलादयो भावाः, ये त एवेति व्यपदिश्यन्ते। ते न भवन्ति पूर्वानुभूता नानु भवन्तीत्यर्थः । यदि ते न भवन्ति, कथं तर्हि 'ते' इत्यभिधानमित्याह-तत्सदृशास्त्वन्ये पूर्वसदृशा इत्यर्थः । पारम्पर्यसमुत्थिता इति सदृशसन्तानव्यवस्थिताः। सारूप्यादिति सदृशरूपत्वात्। तेषां समुदय इति क्षणभङ्गिनां मेलक इत्यर्थः। निरीश इति स्थार पात्मरहितः। सत्त्वसंज्ञक इति प्राणिसंज्ञकः । केचिदिति बौद्धाः। बौद्धा हि निरात्मकं क्षणिकज्ञानादिसमुदायमानं शरीरमिच्छन्ति। अभिसन्धानञ्च क्षणिकानामपि ज्ञानानां कार्यकारणाभावाच्चैव सन्तताविच्छन्ति । एतद् दूषयति-तेषामित्यादि। तेषां ज्ञानसन्तानवादिनाम्, अन्येन कृतस्यौदन. पाकादेः फलमन्नादि अन्ये भुञ्जत इति प्राप्नोति। एतच्चासङ्गतम् । यतः फलं भोक्ष्यामीति कृत्वा भाविफलप्रत्याशया प्रवृत्तियुक्ता, न त्वन्यस्य भोग्यतां फलस्य पश्यन् कश्चित् प्रवर्तते, योऽपि सूपकारादिः परार्थ प्रवर्त्तते, सोऽपि परार्थेन स्वार्थ साधयितुकाम एवेति भावः ।
For Private and Personal Use Only