________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०२
चरक-संहिता। कतिधापुरुषीयं शारीरम् मृदण्डचक्र श्च कृतं कुम्भकाराहते घटम् । कृतं मृत्तणकाष्ठश्च गृहकाराद् विना गृहम् ॥ यो वदेत् स वदेद देहं सम्भूयकरणैः कृतम् । विना करिमज्ञानाद युक्त्यागमवहिष्कृतः ॥ कारणं पुरुषः सव्वैः प्रमाणरुपलभ्यते ।
येभ्यः प्रमेयं सवेभ्य आगमेभ्यः प्रतीयते ॥ १२ ॥ नेषु मध्ये कस्मादपि भावादस्य देवनरादिपुरुषस्य चैतन्यादिज्ञानं न सम्भवेत् । सत्त्वभूतगुणेन्द्रियैर्युक्तस्वात्मा खल्वव्यक्ताख्यश्चैतन्ये कारणं चेतनखात्, तत् सर्च विस्तरेण पूर्वाध्याये-निर्विकारः परस्त्वात्मेति वचनव्याख्याने दर्शितम् । शानाभावे सति न च पुरुषस्य धर्मार्थकाममोक्षात्मक प्रयोजनं स्यात् । त्रयोविंशतिसंघाते चैतन्यादिशानं भवेदित्यादिवादवचनञ्च पूर्वाध्याये विस्तरेण दशितम्। तत्रापि युक्तिवाधादाह-मृद्दडेत्यादि। यस्तु कत्तः कुम्भकाराहते मृद्दण्डचक्रः सम्भूय कृतं घटं वदेत्, एवं गृहकत्तु गृहकाराद् विना मृत्तृणकाष्ठैः सम्भूय कृतं गृहं यो वा वदेत्, स खल युक्त्यागमवहिप्कृत एवाज्ञानादप्रमाणात् देवनरादिसगस्य कर्तारमात्मानं विना करणेस्त्रयोविंशत्या भावैः सम्भूय कृतं देहं पुरुष वदेन्न तु चतुर्विशतिकं पड़ धातुकञ्च पुरुष वदेत् । पुरुषस्तु खल्वव्यक्ताख्य आत्मा चेतनाधातुः कारणं पड़. धातुचतुर्विशतिकयोः कर्तारं सर्वः प्रमाणैस्तैरुपलभ्यते। येभ्य आगमादिभ्य आप्तोपदेशादिभ्यः प्रमाणेभ्यः प्रमेयं द्रव्यगुणकर्मसमवायाः सामान्यविशेषभूता इति सर्च प्रतीयते नवप्रमेयमितोऽधिकम्। आगमेश्य इत्यत्रादिशब्दलोपः । तिस्रषणीये पूर्वाध्याये च विस्तरेण दर्शितम् ॥१२॥ धर्माधम्मो पुरुपभोगोत्पादकौ, असति भोक्तरि भोऽयेनापि न भवितव्यं कारणाभावात् । आत्मानं विना शरीरानुपादे दृष्टान्तद्वयं प्रमेयगौरवादाह-कृतं मृद्दण्डेत्यादि। सग्मूयकरणैः कृतमित्यात्मनिरपेक्ष मूतैः कृतमित्यर्थः। युक्त्या अनुमानरूपया आगमेन च रहितो युक्तयागमवहिप्कृतः। प्रत्यक्षञ्चात्र नोक्तम्, तस्यात्मानं प्रति प्रायोऽयोग्यत्वात् । सर्वः प्रमाणेरिति प्रत्यक्षादिभिः। येभ्य इति करण एवापादानविवक्षया पञ्चमी। आगमयन्ति बोधयन्तीति आगमाः प्रमाणान्येष। अन्ये स्वागम प्रमाणाभ्यां शास्त्राप्येव ब्रुवते ॥ ११॥१२॥
* क्वचित् प्रमीयते इति पाठः ।
For Private and Personal Use Only