________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम् ।
१८०१ न बन्धो न च मोक्षः स्यात् पुरुषो न भवेद् यदि। कारणं पुरुषस्तस्मात् कारणज्ञ रुदाहृतः ॥११॥ न च कारणमामा स्यात् खादयः ॐ स्युरहेतुकाः।
न चैषु सम्भवेज्ज्ञानं न च तैः स्यात् प्रयोजनम् ॥ तत आगतिः स्यात् । न च वाग् यदिदं वक्ति विज्ञापनार्थमुच्यते यया । वागभावे विज्ञानं न स्यादुपदेशासामर्थ्यात्। न च शास्त्राणि वेदादीनि स्युः। न जन्म स्यात कः पुनर्जायेत, न च ततो मरणश्च स्यादजातस्य मरणाभावात्। न च संसारे प्रधानादिभिः पाशैबन्धो वा भवेत् तत्त्वज्ञानान्मोक्षो वा स्याद यत्र मोक्षे स्वता परमात्मरूपता स्यात् । तस्मादेष चतुविशतिकः पुरुषः कारणं कारणी महपिभिरुदाहृतः ॥११॥ __गङ्गाधरः-अथेदं तर्हि भवतु तदाह-न चेत्यादि। यः खल्वव्यक्ताख्य. श्चेतनाधातुरात्मा स तु तर्हि कारणं न स्याद् यदाष चतुर्विंशतिकः पुरुषः कारणं स्यात् । कैर्भावस्तदायं स्यात् पञ्चभिभूतैरेवायं राशिः पुरुषः स्यात् । खादयः पञ्च मनो दशेन्द्रियाण्याः पञ्च बुद्धाहङ्काराविति त्रयोविंशतिक एवं पुरुषो भवति । नास्त्यात्मेति चेत् तर्हि चाकाशादयः कस्माज्जायन्ते इति चेदुच्यते, तत्राह-खादयः स्युरहेतुका इति । ते खादयस्त्रयोविंशतिर्भावा अहेतुका नित्या एव सन्ति इति, तत्रोत्तरम्-न चैषु सम्भवेदित्यादि। एषुत्रयोविंशतौ भावेष्वचेतएतदेव भा-आदिकारणत्वमात्मन इत्याह-न चेदित्यादि । एवं मन्यते-- भास्तमसी धर्माधर्मजन्ये, धर्माधम्मो चासत्यात्मनि निराश्रयो न भवितुमहंतः। तथा सत्यं धर्मजनकतया उपादेयम्, अनृतञ्चाधर्मजनकतयानुपादेयम् । एतच्चात्मनि स्थिरेऽसति धर्माधर्मजनकत्वं नास्ति । ततश्च सत्यासत्यभेदोऽप्यकिञ्चित्करत्वान्नास्ति। एवं शुभाशुभकर्मण्यपि वाच्यम्, तथा कर्ता च कारणप्रतिसन्धाता न भवति, प्रतिसन्धातुरात्मनोऽभावादित्यर्थः, तथा बोद्धा च पूर्वापरावस्थाप्रतिसन्धातैव भवति । शरीरञ्चान्मनो भोगायतनं नामानं विना भवति । एवं सुखादावप्यात्मनः कारणत्वमुन्नेयम् । विज्ञानं शास्त्रार्थज्ञानम्, शास्त्राणि प्रतिसन्धात्रा आत्मनैव कृतानि। न चैपु सम्भवेज्ज्ञानमिति-आत्मानं ज्ञातारं विना न भा-आदिप्वज्ञानेषु ज्ञानं भवेत् , ज्ञातुरात्मनोऽभावादित्यर्थः। न च तैः स्यात् प्रयोजनमिति, भा-आदीनामात्मार्थत्वेनासत्यात्मनि भा-आयत्पत्तेः प्रयोजनं न स्यात्, प्रयोजनाभावाच्चोत्पादो न स्यात्, सर्वेषामेव हि भावानामात्मस्थौ
. . न चेत् कारणमात्मा स्यात् भादयः इति चक्रः ।
For Private and Personal Use Only