________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६००
चरक-संहिता। कतिधापुरुषीयं शारीरम् भास्तमः सत्यमनृतं वेदः कर्म शुभाशुभम् । न स्यात् कर्ता वेदिता च पुरुषो न भवेद् यदि । नाश्रयो न सुखं नार्त्तिन गति गतिर्न वाक् ।
न विज्ञानं न शास्त्राणि न जन्म मरणं न च ॥ जायमानेऽप्येष एवोदेतीति। तत्रापि-शरीरं सत्त्वसंशश्च व्याधीनामाश्रयो मतः। तथा सुखानामिति यत् सुखदुःखाश्रयो मनः शरीरश्चोक्तं कथं तर्हि चात्र मोहः सुखं दुःख मिति संगच्छत इति चेत् तदोच्यते। सत्त्वमात्मा शरीरञ्चेत्यत्रात्मा चेतनाधातुः पुरुषोऽव्यक्तं नाम मनः स्थूलपुरुष यत् तत् सत्त्वं महदादिकं शेषं सर्व शरीरं, तदुक्तं पञ्चमहाभूतविकारसमुदायात्मकं चेतनाधिष्ठानभूतं शरीरमिति। तदव्यक्ताख्यस्यात्मनो भोगायतनमिदं सर्च यच्छरीरं तदेव चतुर्विशतिकः पुरुषस्तस्मादत्र सर्व सुखदुःखादिकं प्रतिष्ठितम् इति नासङ्गतमुक्तम् । तत्रापि पृच्छति-यद्यव्यक्ताख्य एवात्मा सबैकारणम्, तर्हि सत्त्वात्मशरीरसमुदाय एष पुरुषः कस्मात् कारणं भवतीति ; तत्रोसरमाह-पारम्पर्य्यमित्यादि। पारम्पर्य परम्पराभावो भावानां लोकेऽतिहति यञ्च किश्चन ज्ञातव्यं भाः प्रकाशो दिनादिरूपस्तमो राधादिरूपं सत्यानृतादिकञ्चेत्येतानि न स्युर्यदि स आत्मा चेतनाधातुरेवंभूतचतुर्विशतिकः पुरुषो न भवेत् । सव्वं ह्यस्मिन् पुरुषे प्रतिष्ठितं यच्च किञ्च लोकेऽस्ति । सस्मादेतत् पुरुषतत्त्वविज्ञानेन लौकिकं सव्वं ज्ञातं भवति। वृहदारण्यकोपनिषदि चैवमुक्तं याज्ञवल्क्येन मैत्रेयौं भाय्यों प्रति। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि। आत्मनो हि दर्शनन श्रवणेन मत्या विशानेन सर्व विदितं भवतीति। न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवतीति। आत्मा वा अरे द्रष्टव्य इत्यादुरक्तस्तत्रायमात्मशब्देनोक्तो न खव्यक्तमात्मा नापि परमात्मा। पत्यादिभिस्तप्रियवाभावात् । यस्मादत्रैव मोहसुखदुःखजीवितमरणस्वतादिकं प्रतिष्ठितं न बव्यक्त तस्मादयं चतुर्विंशतिकः पुरुषो यदि न भवेत्, तदा नाश्रयो न शरीरं स्यात् न सुखं स्यान्नात्तिदुःखं स्यात् नास्मात् परलोके गतिः स्यान्न ___ "पुरुषः कारणं कस्माद” इति प्रश्नस्योत्तरं- भास्तम इन्यादि। भाः प्रतिभा। तमं मोहः। पुरुष इह प्रकरणे आत्माभिप्रेतः। आश्रयः शरीरम् । गतिश्च प्रयोजनानुसन्धानाद् भवति । एवमागतेरपि। कारणं पुरुषस्तस्मादिति भास्तमआदी कारणं पुरुष इत्यर्थः ।
For Private and Personal Use Only