________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः शारीरस्थानम्।
१७६ अत्र कर्म फल चात्र ज्ञानञ्चार प्रतिष्ठितम् । अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता ॥ एवं यो वेद तत्त्वेन स वेद प्रलयोदयौ।
पारम्पय्यं चिकित्सा च ज्ञातव्यं यच्च किञ्चन ॥ नोभयतःप्रज्ञन प्रज्ञ नाप्रज्ञ न प्रशानघनमव्यपदेश्यम् अव्यवहाय्यमेकात्मप्रत्ययसारं शान्तं शिवमद्वैतं चतुर्थ मन्यन्त इति। मनुनाप्मुक्तम् । योऽस्यात्मनः कारयिता तं क्षेत्रज्ञ प्रचाते। यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः। जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम्। येन वेदयते सव्वं सुखं दुःखञ्च जन्मसु। तावुपो भूतसम्पृक्तौ महान् क्षत्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः। प्रशासितारं सर्वेषामणीयांसमणोरपि। रुक्माभं स्वमधीगम्यं विद्यात् तं पुरुषं परम् । एतमेके वदत्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम्। एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः। जन्मद्धिक्षयैर्नित्यं संसारयति चक्रवत् । इति । अत्र भूतात्मा जागरितस्थानः स्वमस्थानश्चेति द्विविध एव विवक्षितः इति । __ अथैवं त्रिविधे पुरुषे कः पुरुषो म्रियते, मृखा च कः परलोकं याति, तत्र च सुखं वा दुःखं वा को भुङ्क्ते, कश्च पुनरिह जायते, इत्याशङ्कयाहअत्रेत्यादि। यदुक्तं पूर्वाध्याये। सत्त्वमात्मा शरीरञ्च त्रयमेतत् त्रिदण्डवत् । लोकस्तिष्ठति संयोगात् तत्र सर्व प्रतिष्ठितम् । स पुमांश्चेननं तच तच्चाधिकरणं स्मृतम्। वेदस्यास्य - इत्यनेनोक्तं तत्र सव्वं प्रतिष्ठितमिति यदुक्तं तदेवम् । अत्र चतविंशतिके पुरुष कम्म कर्मफलादिकं प्रतिष्ठितमित्येवं यो जनो वेद स लोकानां प्रलयोदयौ जीवनमरणे वेद को जीवति को म्रियते तद वेत्ति । एष हि म्रियमाणे नरादौ पड़ धातुके लीयते पुनश्च परलोके भुक्त्वा भोगपिह
पुनश्चतुर्विंशतिकरूपे पुरुषे कर्मफलानि दर्शयन् दोषहीने पुरुषे कर्मफलाद्यभावमर्थाट दर्शयति-अत्रेत्यादि। अति यथोक्तसमुदायपुरुषे। कर्मेत्यदृष्टम्। फलमित्यदृष्टफलम् । स्वता ममताज्ञानम्। यद्यपि चतुर्विंशतिकतत्त्वातिरिक्तस्योदासीनस्यैव चेतना, तथापि तच्चेतनया प्रकृतिरपि चेतनामापद्य चेतनैव भवतीति युक्तमत्र ज्ञानम् इति। वचनं हि-"तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।" प्रलयोदयाविति जीवितमरणे । पारम्पर्यमिति शरीरपरम्पराम्। चिकित्सा चेति नैष्टिकी आत्यन्तिकदुःखेषु चिकित्सा मोन. साधना ज्ञातव्या। किञ्चनेत्यनेनानुक्तमपि कृत्स्नं ज्ञेयमवरणद्धि ।
For Private and Personal Use Only