________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६८
चरक-संहिता। कतिधापुरुषीयं शारीरम् रजस्तमोभ्यामित्यादि। रजस्तमोभ्यां संयुक्तस्यास्य चतुर्विंशतिकस्य पुरुषस्यायमेतदरूपेण संयोगोऽनन्तवान् न सन्तवान् । तहि किमस्य संयोगोऽयं नित्य इत्यत आह-ताभ्यामित्यादि। ताभ्यां रजस्तमोभ्यां निराकृताभ्यां निःशेषेण निरस्ताभ्यां सत्त्वोद्रेके सति सत्त्वबुद्धया तत्त्वज्ञानेनायं संयोगोऽस्मात् पुरुषानिवर्तते। ननु सति च कारणे पड़ धात पुरुषे कथं निवर्तते इति चेत्, तदोच्यते। न खलु कारणे सति कार्यनाशः स्यात् तस्मात् कायनाशादनुमीयते कारणमपि षड़शात पुरुषस्य षड़ धातुसंयोगोऽपि सत्त्वबुद्धया निवर्त्तते। सोऽपि सति कारण न नश्यति तस्मादनुमीयते, षड़धातुसंयोगस्य कारणं चेतनाधातुसंयांगो नश्यति सत्त्वबैरव। चेतनाधातूनां संयोगनाशे निःशेषेण निवर्त्तते न पुनरावर्त्तते। रजस्तमोनिराकरणेन धर्माधम्मे विनाशात् । इति । अस्य भूतात्मनश्च कारणं पड़ धातुः पुरुषो भूतात्मैव स्वमस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पाद उक्तो माण्डूक्योपनिषदि। तस्यापि सप्ताङ्गानि-यानि शब्दतन्मात्रादीनि पश्चमहाभूतानि तानि हि तेजोद्विधाग्निश्चन्द्रसूर्यरूपश्चैकः। तदुक्तं मुण्डकोपनिषदि । अग्निमूर्द्धा चक्षुपी चन्द्रमूर्यो दिशः श्रोत्रे वागवितताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी हेोष सर्वभूतान्तरात्मा। इति लोके। पुरुष तु मुखान्येकोनविंशतिश्च-पञ्चतन्मात्राणामेकैकाद्यधिकानि पञ्चमहाभूतात्मकानि प्राणाः पञ्च मनो दशेन्द्रियाणि खाहकारकाणि चेतोऽहकारमहान्तश्चेति । स्वप्ने प्रविविक्त विषयान् भुङ्क्ते इति। अस्य कारणं चेतनाधातुरव्यक्तं नाम जीवोपाधिः सुषुप्तिस्थानः प्राज्ञः। यत्र सुप्तो न कञ्चन कामं कामयते न च कञ्चन स्वप्नं पश्यति तत्सुषुप्तिस्थानमेकीभूतः प्रशानधन आनन्दमयश्चेतोमुख आनन्दभुक् प्राशस्तृतीयः पाद आत्मा इत्युक्तो माण्डूक्योपनिषदि। सुषुप्तो सवाणि मनसि लीयन्ते मनः प्रज्ञान आत्मनि तामसे महत्तत्त्वे तामसस्तु राजसे महत्तत्त्वे राजसस्तु सात्त्विके महति। सात्त्विकस्तु महाश्वेत उच्यते, सा प्रज्ञा प्रज्ञावान् प्राशो ह्ययमात्मा परेऽक्षरे परमात्मनि शिवे तुरीयपादे संप्रतितिष्ठते। रसो वै स रसं हवायं लब्ध्वानन्दी भवतीति । चतुष्पाद अयमात्मा ब्रह्मत्युक्तम्। माण्डूक्योपनिषदि । नान्तःप्रज्ञ न वहिप इति चतुर्विशतिराशिरूपो मेलकः। ताभ्यामिति रजस्तमोभ्याम् । सत्त्ववृद्धा कारणभूतथा रजस्तमोनिवृत्त्या पुरुषरूपः संधोगो निवर्तते मोक्षो भवतीत्यर्थः। सत्वं वृद्धं विशुद्धज्ञानजननात् रजस्तमसी संसारकारणे विजित्य प्रकृतिपुरुषविवेकज्ञानात् मोक्षमावहति ।
For Private and Personal Use Only