________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
d
म अध्यायः
शारीरस्थानम्।
१७६७ रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान् ।
ताभ्यां निराकृताभ्यान्तु सत्त्वबुद्ध्या ® निवर्त्तते ॥ . एकखाविभुत्वाभ्यां क्रमेण तत्तदिन्द्रिये वृत्तिवादयुगपद्ग्रहणमिति। एकत्वे प्रादुर्भावतिरोभावयोरभाव इति। अनभिज्ञानञ्च विषयान्तरव्यासङ्गात् । अनभिज्ञानमनुपलब्धिः। अनुपलब्धिश्च कस्यचिदर्थस्य विषयान्तरव्यासक्ते. मनस्युपपद्यते दृत्तिवृत्तिमतो नावात्। एकत्वे ह्यनर्थको व्यासङ्गः इति । विभुत्वे चान्तःकरणस्य पर्यायेणेन्द्रियैः संयोगः, न गत्यभावात्। विभुत्वेन इन्द्रियाणि सर्वाणि प्राप्तान्यन्तःकरणेनेति प्राप्तस्यार्थस्य गमनाभावः। तत्र क्रमवृत्तिलाभावादयुगपदग्रहणानुपपत्तिरिति । गत्यभावाच्चैकलप्रतिषेधस्तस्माद : बुद्धिर्न नित्या येयं चाक्षुषादिबुद्धिरूपेण प्रवर्तते, परन्तु स्थिरा। सुवर्णकुण्डलवत् । सुवर्ण कुण्डलरूपेण प्रवर्तते, कुण्डलविनाशे सुवर्णमवतिष्ठते। तथा बुद्धिरात्ममनइन्द्रियार्थसन्निकर्षात् प्रवर्तते सन्निकर्षाभावे बुद्धिरवतिष्ठते इति । । एवञ्च चतुर्विंशतिं भावानुक्त्वा चतुर्विशतिकमुपसंहरति-चतुर्विंशतिक इत्यादि। हि यस्मादेप षड़ धातुपुरुषजनितमनोदशेन्द्रियपञ्चार्थभूतात्मा बुद्धाहङ्कारपञ्चभूतानीति चतुर्विशत्त्या निष्पन्नः पुरुषसंज्ञको मतः, पुरि ह्यन्नमयेऽस्मिञ्छरीरे वासात्। एष वहिःप्रज्ञो जागरितस्थानः सप्ता एकोनविंशतिमुखः स्थूलभुम् वैश्वानरः प्रथमः पाद आत्मा माण्डूक्योपनिषाक्तस्तस्य पञ्च भूतान्यात्मस्थितानि सप्ताङ्गानि। छान्दोग्योपनिषदि चोक्तानि तेजोद्विधामिर्नामादित्यश्च। तत्राग्निमूर्द्धा सुतेजो नाम। आदित्यचक्षुर्विश्वरूपो नाम। वायुः प्राणः पृथगवां नाम । आकाशः सन्दोहो बहुलो नाम। आपो वस्ती रयिर्नाम। पृथिवी पादौ प्रतिष्ठा नाम । उरो वेदिरिति । मनो दशेन्द्रियाणि पश्च प्राणाश्चित्तं बुद्धिरहङ्कार इत्येकोनविंशतिमुखानि, एभिर्वहिः स्थूलान् विषयान भुङ्क्ते। मृतस्यैष नश्यति। परलोके चैवमेवोत्पद्यते पुनश्चेह खल्वेवमेवरूपेण जायते, इति। तस्मात् केचिनित्यमाहुरपरे चानित्यमाहुः॥१०॥
गङ्गाधरः-तत्राग्निवेशः प्रपच्छ, पुरुषः कारणं कस्मादिति । तत्रोत्तरमाहमहदादयः सप्तोच्यन्ते। एवं चतुर्विशतिको राशिर्भवति । परत्वञ्च विकारापेक्षया प्रकृतीनामुपपामेव ॥ १०॥
चक्रपाणिः-सम्प्रत्येवंपुरुषस्य सकारणं संसरणं मोक्षहेतुञ्चाह-रज इत्यादि। संयोगोऽयम् * सत्ववृद्धया इति पाठान्तरम् ।
-
For Private and Personal Use Only