________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६६
चरक-संहिता। कतिधापुरुषीयं शारीरम् शक्यमस्तीति प्रतिपत्तुम्। ज्ञानञ्चेद् बुद्धरन्तःकरणस्याभ्युपगम्यते, चेतनस्थेदानी किं स्वरूपं को धर्मः किं तत्त्वम् । शानेन बुद्धौ वर्तमानेनायं चेतनः किं करोतीति । चेतयत इति चेन्न झानाद्धार्थान्तरवचनम्। पुरुषश्चेतयते बुद्धिर्जानातीति नेदं शानादर्थान्तरमुच्यते। चेतयते जानीते बुध्यते उपलभते पश्यतीत्येकोऽयमर्थ इति । बुद्धिर्शापयतीति चेत्, अद्धा जानीते पुरुषो बुद्धिर्शापयतीति सत्यमेतत्। एवञ्चाभ्युपगमे शानं पुरुषस्येति सिद्धं भवति, न बुद्धेरन्तःकरणस्येति। प्रतिपुरुषञ्च शब्दान्तरव्यवस्थाप्रतिक्षाने प्रतिषेधहेनुवचनम्। यच्च प्रतिजानीते, कश्चित् पुरुषश्चेतयते कश्चिद् बुध्यते कश्चिदुपलभते कश्चित् पश्यतीति पुरुषान्तराणि खल्विमानि चेतनो बोद्धोपला द्रष्टेति, नैकस्यैते धर्मा इति। अत्र कः प्रतिषेधहेतुर्वाच्य इति। अर्थस्याभेद इति चेत् समानमभिन्नार्था एते शब्दा इति। तत्र व्यवस्थानुपपत्तिरित्येवं चेत् मन्यते, समानं भवति ; पुरुषश्चेतयते बुद्धिर्जानीते इत्यत्राप्यों न विभिद्यते। तत्रोभयोश्चेतनखादन्यतरलोप इति । यदि पुनर्बुध्यतेऽनेनेति बोधनं बुद्धिर्मन एवोच्यते, तच्च नित्यम् । अस्तु एतदेवं, न तु मनसो विषयप्रत्यभिज्ञानानित्यखम्। दृष्टं हि करणभेदे शातुरेकखात् प्रत्यभिज्ञानम्। सव्यदृष्टस्येतरेण प्रत्यभिज्ञानमिति चक्षुर्चत् । प्रदीपवच्च प्रदीपान्तरदृष्टस्य प्रदीपान्तरण प्रत्यभिवानमिति, तस्माज शातुरयं नित्यत्वे हेतु रिति । यश्च मन्यते बुद्धवस्थिताया यथाविषयं वृत्तयो ज्ञानानि निश्चरन्ति, वृत्तिश्च वृत्तिमतो नान्येति। न युगपदग्रहणात् । वृत्तिवृत्तिमतोरनत्यत्वे वृत्तिमतोऽवस्थानाद वृत्तीनामवस्थानमिति । यानीमानि विषयग्रहणानि, तान्यवतिष्ठन्ते इति बुद्धिनित्या विषयमत्यभिसानादिति हेतुः साध्यसमखादहेतुर्न भवति युगपदग्रहणात् । वृत्तिमवृत्त्योयुग- . पदग्रहणाभावात् । इति । तत्राह-वृत्तिवृत्तिमतोरनन्यत्वे वृत्तिमतोजस्थानात् वृत्तीनामवस्थानमिति यानीमानि विषयग्रहणानि तान्यप्यवतिष्ठन्त इति युगपद्विषयग्रहणं प्रसज्यत इति। प्रत्यभिज्ञाने च विनाशप्रसङ्ग इति । अतीते प्रत्यभिज्ञाने वृत्तिमानप्यतीत इत्यन्तःकरणस्य विनाशः प्रसज्यते, विपर्यये च नानासमिति । अविभु चैकं मनः पर्यायेणेन्द्रियैः संयुज्यते इति। क्रमवृत्तिखाद युगपदग्रहणम्। इन्द्रियार्थानां वृत्तित्तिमतो नासमिति मनस कथनेनोच्यते । "या यदिन्द्रियमाश्रित्य" इत्यादिना तु स्फुटोपलभ्यमाना बुद्धिवृत्तिभेदा उभ्यन्ते । बुद्ध यहङ्कारतन्मात्राज्यव्यक्तानि तु सूक्ष्माणि नोक्तानि, तानि सर्वाण्येव "बुद्धीन्द्रियमनोऽर्थानाम्" इत्यादि ग्रन्थे 'पर'शब्देनोच्यन्ते। तेन योगधरं परमित्यनेन मूलप्रकृतिस्तथा प्रकृतिविकृतया
For Private and Personal Use Only