________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः शारीरस्थानम् ।
१७६५ भवस्थापनायां तदर्शितम् । ये त्वेवं न विदन्ति ते केचिद् बुद्धिनित्येति वदन्तः केचिद् बुद्धिरनित्येति वदन्तो विवदन्ते। तथा केचित् पुरुषो नित्य इति वदन्तः केचिदनित्यः पुरुष इति वदन्तो विवदन्ते इति। तद्वयमसम्यक् । परीक्षिता हि बुद्धिगौतमेन। तद यथा-बुद्धिरुपलब्धिनिमित्यनर्थान्तरम् । काकाशसाधात् संशयः। विषयप्रत्यभिज्ञानात् । साध्यसमखादहेतुः । न युगपदग्रहणात्। प्रत्यभिज्ञाने च विनाशप्रसङ्गः। क्रमवृत्तिबाद युगपदग्रहणम्। अनभिज्ञानञ्च विषयान्तरव्यासङ्गात् । न गत्यभावात्। इति । व्याख्यातञ्च वात्स्यायनेन सर्वम् । तद् यथा-काकाशसाधर्म्यात्-बुद्धिःकिमनित्या नित्या वेति संशयः। अस्पर्शवत्त्वं ताभ्यां ताभ्यां समानो धर्म उपलभ्यते बुद्धौ विशेषश्चोपजनापायधर्मवत्त्वं विपर्ययश्च यथास्वमनित्यनित्ययोस्तस्यां बुद्धौ नोपलभ्यते। तेन संशयः। इति । अनुपपन्नरूपः खल्वयं संशयः। सर्वशरीरिणां हि प्रत्यात्मवेदनीयाऽनित्या बुद्धिः सुखादिवत् । भवति च संवित्तिस्यामि जानामि अज्ञासिपमिति। न चोपजनापायावन्तरेण त्रकाल्यव्यक्तिः। ततश्च त्रैकाल्यव्यक्तरनित्या बुद्धिरित्येतत् सिद्धम्। प्रमाणसिद्धञ्चेदम् । शास्त्रेऽप्युक्तम्-इन्द्रियार्थसन्निकपोत्पन्नं ज्ञानम्। युगपज्शानानुत्पत्तिर्मनसो लिङ्गमित्येवमादि। तस्मात् संशयप्रक्रियानुपपत्तिरिति । दृष्टिप्रवादोपालम्भार्थन्नु प्रकरणम्। एवं हि पश्यन्तः प्रवदन्ति सायाः पुरुषस्यान्तःकरणभूता बुद्धिनित्येति । साधनं प्रचक्षते। विषयप्रत्यभिज्ञानात् । पुरुषस्यान्तःकरणभूता बुद्धिनित्या। विषयप्रत्यभिज्ञानात् । किं पुनरिदं प्रत्यभिज्ञानम् ? यं पूर्वमशासिषमर्थ तमिमं जानामीति ज्ञानयोः समानेऽर्थे • प्रतिसन्धिशानं प्रत्यभिज्ञानम् । एतच्चावस्थिताया बुद्धरुपपन्नम् । नानात्वे तु
बुद्धिभेदेषत्पन्नापवर्गिषु प्रत्यभिज्ञानानुपपत्तिः। नान्यज्ञातमन्यः प्रत्यभिजानातीति । साध्यसमवादहेतुः । इति । यथा खलु नित्यवं बुद्धेः साध्यम् एवं प्रत्यभिज्ञानस्यापीति । किं कारणम् ? चेतनधर्मस्य करणेऽनुपपत्तिः । पुरुषधर्मः खल्वयं ज्ञानं दर्शनमुपलब्धिर्वोधः प्रत्ययोऽध्यवसाय इति । चेतनो हि पूर्वज्ञातमर्थ प्रत्यभिजानातीति। तस्यैतस्मात् तोनित्यवं युक्तमिति । करणचैतन्याभ्युपगमे तु चेतनस्वरूपं वचनीयम्। नानिर्दिष्टस्वरूपमात्मान्तरं परमित्यव्यक्तम्, शुद्धवादीनां योग मेलकं धरतीति योगधरम् । अव्यक्तं हि प्रकृतिरूपपुरुषार्थप्रवृत्तम्, बुद्धगदिमेलकं भोगसम्पादकं सृजति । एवं व्युत्पादितं चतुर्विंशतिकमुपसंहरतिचतुर्विंशक इत्यादि। यदि वा कर्मेन्द्रियाण्यभिधाय, महाभूतानि इत्यादिना अर्थ एवाश्रयभूत
For Private and Personal Use Only