SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६४ चरक-संहिता। [ कतिधापुरुषीयं शारीरम् अङ्गाल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भवः। . दृष्टः शब्दो यथा बुद्धिष्टा संयोगजा तथा ॥ बुद्धीन्द्रियमनोऽर्थानां विद्याद योगधरं परम् । . चतुविंशतिको हेोष मतः पुरुषसंज्ञकः ॥ १०॥ घटीयशब्दश्रवणबुद्धिः घटीयस्पर्शस्पर्शनबुद्धिरित्येवमादयोऽपरिसङ्घो याः स्मृताः। तत्रात्मेन्द्रियमनोऽर्थानां सन्निको द्विविधः समविषमयोगभेदात् । यदाहङ्कारबुद्धयाभिभूयते धीधृतिस्मृतिबुद्धिस्तदा बुद्धरयोगातियोगमिथ्यायोगात् अर्थसन्निकों भवति। यदा नाभिभूयते तदा समयोगादर्थसन्निकर्षों भवति । ततो वाङ्मनःशरीरप्रवृत्तेरयोमातियोगमिथ्यायोगसमयोगा भवन्तीति। आसां बहुत्वे दृष्टान्तमाह-अङ्गल्यऋष्ठेत्यादि। अष्टग्रहणं प्राधान्यात् सद्ग्रहणेन शेषा अङ्गुलिशब्दनोच्यन्ते। तत्रीवीणानखोद्भवः शब्द एको यथाङ्गल्यङ्गष्ठतलजो बहुविधो दृष्टः श्रुतस्तथा संयोगजा आत्मेन्द्रियमनोर्थानामेकैकसन्निकर्षजा बुद्धिः कार्येन्द्रियार्थानां भेदाद बहुविधा दृष्टा भवति । कुत एवं स्यादित्यत आह-बुद्धीत्यादि। बुद्धेरिन्द्रियाणां मनसोऽर्थानाञ्च योगधरं स्वभावं विद्यात् । बुद्धेर्यथाविधेनेन्द्रियेण मनसाथेन च योगो भवति तथाविधरूपेण प्रत्तिभवति । इत्येपा चतुध्विंशतिक पुरुषस्था द्विविधा बुद्धिरनित्या उत्पत्तिधर्मकखात्। षड़ धातुपुरुषस्था महदाख्याहङ्काराख्या च नित्या यावन्निाणं स्थायित्वात् । एवं चतुर्विंशतिकः पुरुषोऽप्यनित्य उत्पत्तिधम्मकखात् । उत्पत्तिधर्मकत्वं पुनःपुनरिह जन्मशीलखम् । न चास्ति तत्पड़धातुपुरुषस्य पुनःपुनरुत्पत्तिधर्मकत्वं नारायणादेव प्राक् सकृदेवोत्पत्तः। तस्मात् पड़ धातुः पुरुषो नित्यः निर्माणपर्यन्तस्थायित्वात् । पुनसुखदुःखप्रपन्चेन हि तत्कार्येण कारणं ज्ञानमपि बहु भवति । इदार्नी सर्ववाह्यज्ञानसाधनमाहआत्मेत्यादि। आत्मा अध्यक्तम् । एकैकेति प्रत्येकम् । बुद्धरनेकात्मादिमेलकजन्यत्वे दृष्टान्तमाहअङ्गलीत्यादि। तेन दृष्टान्तेन शब्दद्वयमाह-अङ्गल्यङ्गुष्टतलजशब्द एकः। अयञ्चाङ्गुष्टयन्दितमध्यमाङ्गल्याः करेण संयोगाद जायमानशब्द उच्यते, तन्वी वीणाशब्द एकः । अन्ये त्वेकमेवाङ्गल्या. दिजं वीणाशब्दं वयन्ति । एतेन यथा शब्दो अङ्गुलाद्यन्यतमवैकल्येऽपि न भवति, तथा बुद्धि रण्यात्मादीनामन्यतमवैकल्येऽपि न भवतीति दर्शयति। अत्र च बुद्धिवृत्तीनां ज्ञानानां कथनैरहकारोऽपि सूचित एव । यतः, अहङ्कारोपजीवितैवारमादिसम्बलितेयं बुद्धिः 'अहं पश्यामि' इत्यादि. रूपा भवति । तेन बुद्रः अहङ्कास्स चोनत्वात परमव्यक्तं कार्यद्वारा स्वीक्रियते । बुद्धीप्यादि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy