________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम् । १७६३ भेदात् कार्येन्द्रियार्थानां बयो वै बुद्धयः स्मृताः।
आत्मेन्द्रियमनोऽर्थानामेकैकसन्निकर्षजाः॥. अर्थाश्च पञ्च दर्शिताः। शरीरस्य प्रकृतयः पञ्च पितृजादीनि त्रिधा भूतानि वक्ष्यन्ते चतुविशतिकपुरुषे प्रकृतय इहोपदेष्टव्यास्तत्र षष्ठधातुर्यश्चेतनाधातुः अव्यक्ताख्यस्तस्य महदादिगन्धमात्रपृथिव्यन्तैकोनविंशतिमुखानि, तत्र यदाहद्वारिकं मनस्तस्मान्मनोऽन्तरं यजायते तद् दर्शितं मनो दशेन्द्रियाणीत्यनेन । यः पुनस्तत्राव्यक्तमात्मा स पुनरात्मकृतानि पञ्च भूतान्यादाय सप्ताङ्गमात्मा न्तरमारभते। जागरितस्थानं वहिःप्रज्ञ वैश्वानराख्यं भूतात्मानम् । तथा तत्पड़ धातुस्थषष्ठचेतनाधातुस्थो यो महान् स त्रिधाबुद्धिमारभते, धीतिस्मृति भेदेन । यश्चाहङ्कारः स पुनरभिमानलक्षणमहङ्कारं गोख्यमशानमारभते । इति पड़धातुपुरुषस्थाष्टधातुनिष्पन्ना प्रकृतिरप्यष्टया पञ्च खादय आत्मकृतास्तद्भूतोपाधिक आत्मा त्रिधाबुद्धिरहङ्कारश्चेति। तत्र बुद्धिश्चाहङ्कारश्च बुद्धिरुच्यते । सा पुनर्वाह्याभ्यन्तरे षड़ विधरूपेण प्रवर्तते तदुक्तं प्राक् पञ्चेन्द्रियबुद्धयश्चक्षुर्बुद्धग्रादिकास्ताः पुनरिन्द्रियेन्द्रियार्थसत्त्वात्मसन्निकर्षजाः क्षणिका निश्चयात्मिकाश्चेति, इह चोक्ता मनोऽर्थसन्निकर्षजा षष्ठी बुद्धिस्तासां यथा निर्देशो लोके सिद्धस्तदाह-या यदिन्द्रियमित्यादि। जन्तोर्या प्रत्यगात्मस्था बुद्धिः सा बुद्धियदिन्द्रियमाश्रित्य व्यक्ता सती प्रवत्तेते, सा बुद्धिस्तेनेन्द्रियेण निर्देशं याति। यथा च धुद्धिः श्रवणबुद्धिः स्पर्शनबुद्धी रसनबुद्धिर्घाणबुद्धिरिति। इह पञ्चेन्द्रियाणीत्युक्तेरिन्द्रियपदेन मनोऽनभिधानादाह-मनसा चेति। मनोभवा आत्ममनोऽर्थसन्निकर्षजा या बुद्धिः सा मनसा निर्देशं याति; मानसबुद्धिरित्युच्यते। मूलभूता तु बुद्धिः प्रत्यगात्मस्थेति सप्त बुद्धयः। आसां पप्णां बुद्धीनां कार्येन्द्रियार्थानां कार्याणामिन्द्रियार्थानां घटपटादिस्थानां शब्दस्पर्शादीनां भेदादात्मेन्द्रियमनोऽर्थानामेकैकसन्निकर्षजाः श्रवणबुद्धग्रादिकास्ता बुद्धयो बहा एव स्मृताः। बुद्धितत्त्वस्य वृत्तिविशेषरूपाणि ज्ञानानीन्द्रियप्रणालिकया भवन्ति, तदिन्द्रियजन्यत्वेनैव तानि ध्यपदिश्यन्ते-चक्षुर्बुद्धिः श्रोत्रबुद्धिरित्यादीनि। मनोभवा च बुद्धिश्चिन्त्यादिविषया मनसा निर्दिश्यते मनोबुद्धिरिति व्यपदिश्यत इति । ___ इन्द्रियमनोभेदेन पटत्वं बुद्धीनां प्रतिपाद्य बुद्धिबहुत्वं प्राह-भेदादित्यादि । कार्यस्य इन्द्रियार्थस्य च भेदात् तत्सम्बन्धेन भिद्यमाना बयो बुद्धयो भवन्ति, कार्य सुखदुःखभेदाः ।
...
For Private and Personal Use Only