SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६२ चरक-संहिता। [ कतिधापुरुषीयं शारीरम् या यदिन्द्रियमाश्रित्य जन्तोद्धिः प्रवर्तते । याति सा तेन निर्देशं मनसा च मनोभवा ॥ चधुस्तेजोगुणेनाधिकेन शेषभूतगुणाभिभवाद रूपमेव गृह्णाति नेतरमथम् । बावधिकपञ्चभूतारब्धं स्पर्शनं वायुगुणेनाधिकेन शेषभूतगुणावजयात् स्पर्ममेव गृह्णाति नेतरमर्थम् । तथाकाशाधिकपञ्चभूतारब्धं श्रोत्रमाकाशगुणेन भूयसा अशेषभूतगुणावजयात् शब्दमेव गृह्णाति नान्यमर्थमिति तदारम्भकद्रव्याणां भूयस्त्वात् तद्विषयग्रहणनियमव्यवस्थान विरुद्धगुणसमवाये भूयसाल्पमवजीयते इति। तहि कथं तत्तदभूतारब्धद्रव्यग्रहणे नियमः। अस्तु तदारम्भकभूतानामेकैकस्य भूतस्य भूयस्त्वात् तु। तेषां गुणानां ग्रहणे तु कथं नियमः स्यादिति। सगुणानामिन्द्रियभावात् । येषां भूतानामेकैक. भूताधिकानामिन्द्रियरूपेणाभिनि त्तिः स्यात् तेषां सगुणानामेव भूतानामिन्द्रियभावः स्यात् न तु निर्गुणानां, ते हि गुणाः कार्यनिर्वाहे शक्तिरूपाः। तेन घ्राणं स्वेन गन्धेन शक्तिभूतेन समानार्थकारिणा सह वाहा गन्धं गृह्णातीति । एवं शेषाणामपि । तेन च स्वस्वगुणान् घ्राणादीनि गन्धादीन् न गृह्णन्ति। स्वगुणेन स्वगुणसहयोगाभावात् तु तेनैव तस्याग्रहणाच्च । स्वगुणेन स्वगुणस्य ग्रहणाभावाच्च। सगुणानामिन्द्रियभावः । तबाह वादी-न शब्दगुणोपलब्धेः । स्वगुणानोपलभन्त इन्द्रियाणीति न । शब्दगुणोपलब्धेः। उपलभ्यते हि शब्दः स्वगुणः श्रोत्रेणेति। तत्रोत्तरम् । सदुपलब्धिरितरेतरद्रव्यगुणवैधात्। येन शब्देन गुणेन सहितमाकाशं श्रोत्रमिन्द्रियं भवति न स शब्द उपलभ्यते श्रोत्रेण। कर्णावपिधाय यज्ज्वालाशब्द शृणोति तत्पाणिपिधानेन ब्रह्मस्थशब्दश्रोत्रयोरितरेतरवैधात सदुपलब्धिरिति। यच्चक्षुनिपीड़ने ज्योतिदृ श्यते तच्चक्षुज्योतिर्न चक्षुषो रूपमिति। न स्वगुणग्रहणमिन्द्रियाणामस्तीति ॥९॥ गङ्गाधरः-अथ शरीरे ये गुणास्ते यदि गुणिनां चिह्न निर्दिष्टा अपरे बुद्धद्यादयस्तु गुणा न शरीरे कस्य गुणास्ते चिह्नानि वा भवन्ति ? उच्यते । प्रकृतिश्चाष्टधातुकीत्युक्तम्। तत्र षड्धात्पुरुषस्था ये खादयः पश्च गुणाः पञ्च धातवस्तत्प्रकृतिका आत्मजाः पञ्च ये खादयः शरीरे तेषां विकारा दशेन्द्रियाणि चक्रराणिः-सम्प्रति प्रकृतिगणसंविष्टायाः बुद्धरुपदर्शनार्थ तस्या बुद्धेर्वृत्तिभेदात् ज्ञानविशेषरूपाण्याह-येत्यादि । यदिन्द्रियमाश्रित्य इति यदिन्द्रियप्रणालिकामाश्रित्य महच्छब्दाख्यस्य For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy