________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
निदानस्थानम् ।
१२३६ तस्य निदानपूर्वरूपलिङ्गोपशयसम्प्राप्तिविशेषान् अनुव्याख्यास्यामः ॥ १० ॥ आदितो ज्वरः संजायते। तेन जनिकत्तु : प्रकृतिरित्यनेनापादानात् । कारणादिति प्रकृतिभूतात् कारणात् । तेन दोषः समवायी कारणं ज्वरादौ घटादिप मृदादिवत्। आगन्तुरपि तथा। ननु द्वौ ज्वरावित्युक्तमष्टोदरीये शीतोष्णाभिप्रायेण कथमत्राष्ट ज्वरा उक्ता वातादिकारणभेदेन ? अत्रोच्यते, शीतोष्णाभिप्रायेण ज्वरस्य द्विखोक्तो नाशेषविशेषेण चिकित्सा भवति वातज्वरस्य शीतविपरीतोष्णक्रिया कफज्वरस्यापि युक्तापि न हि स्निग्धानुवास. नादिक्रिया युज्यते, तस्माद् वातादिषु स्निग्धशीतरुक्षादिक्रियाविशेषविधानार्थ वाताद्यात्मकखेन वातादिकारणभेदो दर्शित इति । एवमभिषङ्गादिविपरीतक्रियाविधानार्थ न तु तत्तदागन्तुजेऽपि उत्तरकालं वातायनुबन्धे सति वातादिविधानमिति ज्ञापनार्थञ्चेति ॥९॥ - गङ्गाधरः-ननु निदानपूर्वेण क्रमेणेति प्रतिज्ञातं भवता, कथमादौ संख्योक्तेति चेद ? न, यद्यपि ह्यत्र पूर्वमसात्म्येन्द्रिवाथसंयोगादि त्रिविधं निदानमागन्तुनिजयोः प्रेरणमुक्तं हेतुनिमित्तमायतनमित्यादिपायवचनेन समवायिकारणवाचिलं हेखादिपदानां न व्यवछिन्नं कृतमिति ज्ञापनार्थं प्रत्येकं निदानादिव्याख्यानार्थश्चादौ प्रकृतिभूतकारणभेदेन संख्यानिर्देश कृखा प्रत्येकं निदानादिकं यथासम्भवं व्याखयातुप्रतिज्ञायते--तस्येत्यादि। तस्य वातादिप्रकृतिभूतकारणभेदेन भिन्नस्य ज्वरस्य यथासम्भवं विशेषतस्तु असात्म्येन्द्रियार्थसंयोगादित्रयरूपं निदानं सामान्यतः पूव्वरूप विशेषतो लिङ्गानुप्रपशयः सम्प्राप्तयश्चात्र व्याख्यास्यन्ते व्याधीनामनुत्पत्त्यवस्थायां पूर्वरूपाणि भवन्ति । तनिवन्धनविशेषप्रयोजनसाध्यवासाध्यखादिज्ञानार्थ सर्वत्र व्याखवास्यन्ते ॥१०॥ कारणभेदोत्पन्नोऽप्येकरूप एव ; यतः आगन्तुः सो व्यथापूर्वमेव भवति ; यस्तु तत्र, “कामशोकभयाद वायुः” इत्यादिना भेदो वक्तव्यः, स वातादिकृत एवेति भावः ॥९॥
चक्रपाणिः-तस्येत्यादौ 'तस्य' इति ज्वरस्य ; विशेषानिति निदानादिभिः प्रत्येकं सम्बध्यते ; निदानादिविशेषाश्च ह रोगान्तररक्तापत्ताद्यपेक्षया तथा परस्परं वातादिज्वरापेक्षया च यथासम्भवं बोद्धव्याः ; तेन पूर्वरूपविशेष इह रक्तपित्तादिपूर्वरूपापेक्षया बोद्धव्यः, पूर्वरूपस्य विशेषेण इहानभिधानात् ; उपशयविशेषानभिधानञ्च निदानविशेषादेव लभ्यते ; यतः निदानविपर्ययेण
For Private and Personal Use Only