SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४० चरक-संहिता। ज्वरनिदानम् तद् यथा-रुक्षलघुशीतवमनविरेचनास्थापनशिरोविरेचनातियोग-व्यायाम-वेगसन्धारणानशनाभिघातव्यवायोगशोकशोणिताभिषेक-जागरण-विषम--शरीरन्यासेभ्योऽतिसेवितेभ्यो वायुः प्रकोपमापद्यते। स यदा प्रकुपितः प्रविश्यामाशयमुष्मणः स्थानमुष्मणा गङ्गाधरः-तत्र वातादिज्वरनिदानादीन्याह--तद् यथेत्यादि। रुक्षेत्यादि वातज्वरनिदानम् । रुक्षाश्च लघवश्च शीताश्चौषधाहारदेशकालाः। वमनविरेचनास्थापनशिरोविरेचनानां चतुर्णामन्यतमस्यातियोगश्च। व्यायामश्च इत्यादीनां द्वन्द्वसमासः। शोणिताभिषेकः शोणितमोक्षणम्। एषामतिसेवनेनातियोगस्य लाभात् पुनः कथं वमनाद्यतियोग उक्त इति ? तत्रोच्यते, अतियोगयुक्तवमनादीनामिव सम्यगयोगेनाप्येषामतिसेवनेन वायुः यत् प्रकुप्यति सोऽपि ज्वरमभिनिव्वत्तयति न केवलोऽतियोगयुक्तवमनादिनी वृद्धो वायुरिति बोधनाथं पुनरुक्तः। ___ अथ निदानानन्तरं स्थानसंश्रयात् पूर्वरूपाणि यद्यपि भवन्ति, तथापि ययानुपूर्व्या व्याधिर्जायते तयानुपूर्ध्या शिष्यवोधनार्थं व्याधेः सम्प्राप्त्युपदेशो युज्यते, तेन हि . चयप्रकोपप्रसरस्थानसंश्रया शायन्ते उपशयमभिधास्यति ; पूर्वरूपञ्चह विशियमव्यक्तलिङ्गविशेषरूपमेव ज्ञेयम् ; सम्प्राप्त स्तु वक्ष्यमाणाया इहाप्रतिज्ञानम्, तस्याः सर्वरोगे सम्प्राप्तिभेदाभिधानेनैव कथितत्वात्, तथा निदानादिवत् सम्प्राप्ताधिबोधनं प्रत्यप्रधानत्वाच् , यश्च सम्प्राप्तिभेदोऽभिधातव्यः स सर्वरोगसाधारण एव : भंदस्तु तस्या वातादिदोषमात्रकृत एव ; वातादिभेदश्च निदानभेद एव ; अन्ये तु ब्रु बते-सम्प्राप्ति नाभिधास्यत्येवायम् , यदेतत् ;-‘स यदा प्रकुपितः इत्यभिधास्यति, तन्निदानरूपवातादिधर्मकथन मिति निदानान्तर्गतमेव ॥ १० ॥ चक्रपाणिः - रुक्षेत्यादि। वातप्रकोपणं प्रति रुक्षस्य प्रधानत्वेनाऽभिधानम् ; रुक्षो हि गुणो वातगुणेषु प्रधानम् ; आस्थापनं यद्यपि वातहरमुक्तम् ,-"आस्थापनानुवासनन्तु खलु सर्ववातबिकारेषु प्रधानम्” इति वचनात्, तथापीहास्थापनस्यातियोगो वातहेतुरुक्त एवेति न दोषः ; वचनं हि-'उत्क्ले शाग्निवधौ स्नेहानिरूहात् पवनाद भयम्" ; निरूहश्चानुवासनं कृत्वा युक्त एव मात्राकृतः साधारणवातहर इति सिद्धान्तः । ___'स यदा' इत्यादिना सम्प्राप्तिमाह-'यदा' इति वचनात्। एवं कुपितोऽपि वायुर्यदा आमाशयप्रवेशादिसम्प्राप्तियुक्तो भवति, तदैव जरं करोति नान्यदेति दर्शयति ; For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy