________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मि अध्यायः
शारीरस्थानम्। वशेषिके कारणगुणनिदशे रूपरसगन्धस्पर्शा इत्यादिसूत्रे शब्दो न निदिश्य कार्यस्य शब्दस्य परीक्षायाम् श्रवणेन्द्रियग्राह्यो योऽर्थः स शब्द इति । एवं स्पर्शनार्थः स्पर्शश्चक्षुरथों रूपं घ्राणार्थो गन्ध इति। गौतमेनाक्षपादनाप्युक्तम् । घ्राणरसनचक्षुस्त्वक्च्छोत्राणीन्द्रियाणीति भूतेभ्यः। पृथिव्यापस्तेजो वायुराकाशमिति भूतानि । गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदाः । इति । तत्र भूतगुणविशेषोपलब्धेस्तादात्म्यमिति व्याख्यातं वात्स्यायनेन। दृष्टो हि वाय्वादीनां भूतानां गुणविशेषोऽभिव्यक्तिनियमः। वायुः स्पर्शव्यञ्जकः, तेजो रूपव्यञ्जकम्, आपो रसव्यञ्जिकाः, पार्थिवं किञ्चिद्व्यं कस्यचिद द्रव्यस्य गन्धव्यञ्जकम्। अस्ति चायमिन्द्रियाणां भूतगुणविशेषोपलब्धि. नियमः। तेन भूतगुणविशेषोपलब्धेर्मन्यामहे भूतप्रकृतिकानीन्द्रियाणि, नाव्यक्तप्रकृतीनीति। गन्धादयः पृथिव्यादिगुणास्तदर्था इत्युपदिष्टम्। उद्देशश्च पृथिव्यादीनां सर्वगुणत्वे समान इत्यत आह-गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्यप्तेजोवायूनां पूर्व पूर्वमपोह्य चाकाशस्योत्तर। वात्स्यायनेन व्याख्यातम् । न स्पर्शपथ्येन्तानामिति विभक्तिविपरिणामः। गन्धादीनां स्पशेपथ्येन्ताः पृथिव्यतेजोवायूनां यथाक्रमं गुणाः-पृथिव्या गन्धोऽपां रसस्तेजसो रूपं वायोः स्पर्शः आकाशस्योत्तरशब्दः, इत्येवं पञ्चमहाभूतानां पश्च गुणाः। तेषां गन्धरसरूपस्पर्शशब्दानां पूर्व पूर्वमपोह्य च पृथिव्यप्लेजोवायनां गुणाः, पृथिव्या रसरूपस्पर्शशब्दाश्व, अपां रूपस्पर्शशब्दाश्च गुणास्तेजसः स्पशशब्दौ, वायोः शब्दश्चेति। पञ्चगुणा पृथिवी, चतुर्गुणा आपः, त्रिगुणं तेजः, द्विगुणो वायुरेकगुण आकाशः। इति । न सर्वगुणानुपलब्धः। नायं पञ्चचतुस्त्रिद्वे प्रकगुणनियोगः साधुः पृथिव्यादीनाम्। कस्मात् ? सर्वगुणा. ऽनुपलब्धेः। यस्य भूतस्य ये गुणा न ते तदात्मकेनेन्द्रियेण सर्व उपलभ्यन्ते। पार्थिवेन हि घ्राणेन न शब्दपर्यन्ता गृह्यन्ते। गन्ध एवैको गृह्यते । एवं शेषेष्वपीति। कथं तहीं मे गुणा नियोक्तव्या इति। एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः। गन्धादीनामेकैको यथाक्रय पृथिव्यादीनामेकैकस्य गुणः। अतस्तदनुपलब्धिः। तेषां तयोस्तस्य चानुप
स्पर्श इत्यादि ज्ञेयम् । शब्दादिग्रहणे आकाशादिग्रहणं यत्, तत् आकाशादिपरिणाम एव शब्दादय इत्युक्तमेव । एतेन यच्छ्रोत्रग्राह्यम्, तत् सर्वमाकाशं शब्दश्च । यत् स्पर्शन गृह्यते, तत् सर्व वायुः स्पर्शश्चत्यादि ज्ञेयम् ॥९॥
For Private and Personal Use Only