________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६०
चरक-संहिता। कतिधापुरुषीयं शारीरम् लब्धिरिति, घ्राणेन पार्थिवेन न रसरूपस्पर्शशब्दानां, रसनेन रूपस्पर्शशब्दानां, चक्षुषा स्पर्शशब्दयोः, खचा शब्दस्येति। एकैकभूताधिकपाश्चभूतात्मकखात् इन्द्रियाणाम्। कथं तहि अनेक गुणानि भूतानि गृह्यन्त इति-संसर्गाच्चानेकगुणग्रहणम् । अवादिसंसर्गाच्च पृथिव्यादिषु रसादयो गृह्यन्ते। एवं सति नियमस्तहि न प्राप्नोति, संसर्गस्यानियमात् । चतुर्गुणा पृथिवी त्रिगुणा आपो द्विगुणं तेज एकगुणो वायुरेवं नियमश्चोपपद्यते। कथम् ? अनुपविष्टं ह्यपरं परेण । पृथिव्यादीनां पूर्व पूर्वमुत्तरोत्तरेणानुप्रविष्टम्, अतः संसर्गनियम इति। तच्चैतद्भूतसृष्टौ वेदितव्यम् । तथा चोक्तमाकाशानुप्रवेशाद्वायुर्नसगिकस्पर्शगुणः पुनः शब्दैकगुण इति द्विगुणः, एवं नैसर्गिकरूपगुणं तेजो द्विगुणवायोः अनुप्रवेशात् सांसर्गिकद्विगुणमिति 'त्रिगुणं, तथा नैसर्गिकरसगुणा आपः त्रिगुणतेजोऽनुप्रवेशात् सांसर्गिकत्रिगुणा इति चतुर्गुणा आपः, एवं नैसर्गिकगन्धगुणा पृथिवी चतुर्गुणाऽवनुप्रवेशात् नैसर्गिकचतुगुणा इति पञ्चगुणा पृथिवीति। इदं त्रिसूत्री प्रतिपादितं प्रत्याचष्टे। न पार्थिवाप्ययोः प्रत्यक्षखात् । उक्तरूपेण भूतानां गुणनियमो न, कस्मात ? पार्थिवस्य द्रव्यस्य आप्यस्य च प्रत्यक्षवात्। महत्त्वानेकद्रव्यवाद रूपाचोपलब्धिरिति । तैजसमेव द्रव्यं प्रत्यक्षं स्यात् न पार्थिवमाप्यं वा रूपाभावात् । तैजसवत् त पार्थिवाप्ययोः प्रत्यक्षवान्न संसर्गादनेकगुणग्रहणं भूतानाम्। इति। भूतान्तररूपकृतञ्च पाथिवाप्ययोः प्रत्यक्षत्वं ब्रुवतः प्रत्यक्षो वायुः प्रसज्येत। नियमे वा कारणमुच्यतामिति । रसयोर्वा पार्थिवाप्ययोः प्रत्यक्षवात्। पार्थिवे रसः षड्विधः, आप्ये मधुर एवेति। न चैतत् संसर्गाद्भवितुमर्हति । रूपयोर्वा पार्थिवाप्ययोः प्रत्यक्षखात् तैजसरूपानुगृहीतयोः, संसर्ग हि व्यञ्जकमेव रूपम् । न व्यङ्गप्रमस्ति । इति। एकानेक विधत्वे च पार्थिवाप्ययोः प्रत्यक्षवाद्रूपयोः, पार्थिवं हरितलोहितपीताद्यनेकविध रूपम्, आप्यन्तु शुक्लमप्रकाशकम्, न चैतदकगुणानां संसर्गे सत्युपलभ्यत इति। उदाहरणमात्रञ्चैतत्, अतः परं प्रपञ्चः । स्पर्शयोर्वा पार्थिवतैजसयोः प्रत्यक्षवात् पार्थिवोऽनुष्णाशीतः रपर्शः, उष्णस्तेजसः प्रत्यक्षः; न चैतदैकगुणानामनुष्णाशीतस्पर्शेन वा वायुना संसर्गेणोपपद्यते। इति । अथवा पार्थिवाप्ययोर्द्रव्ययोर्व्यवस्थितगुणयोः प्रत्यक्षखात् चतुर्गुणं पार्थिवं द्रव्यं त्रिगुणमाप्यं प्रत्यक्षम् ; तेन तत्कारणमनुमीयते। तथाभूतं भूतमिति। तस्य कार्य लिङ्गं कारणभावाद्धि कार्यभाव इति। एवं तैजसवायव्ययोव्ययोः प्रत्यक्षवात् गुणव्यवस्थायास्तत्कारणे द्रव्ये व्यवस्थानुमानमिति। [दृष्टश्च
For Private and Personal Use Only