________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८८
चरक-संहिता। कतिधापुरुषीयं शारीरम् उदात्तादिशब्दविविधस्पर्शरूपरसविशेषाः कार्यगुणा जायन्ते। ततस्ते गुणा अपां चिह्नमेव । २। एवमुष्णतीक्ष्णसूक्ष्मलघुरुक्षविशदरूपगुणबहुलान्याग्नेयानि इत्यनेनोक्तास्तैजसद्रव्यारम्भे तेजसस्तीक्ष्णसूक्ष्मलघुरुक्षविशदगुणाः शेषभूतसंसर्गादभिव्यज्यन्ते, पाञ्चभौतिके तैजसे द्रव्ये ये प्रागनभिव्यक्तास्तेजस्यासन् । शब्दोष्णस्पशौ तु पूर्वभूतसंसर्गजौ, तत्र शब्दो नानाविधोऽभिव्यज्यते तथोष्णश्च। रूपञ्च नैसर्गिकं लोहितं पूर्वभूतसंसर्गजं श्वेतादिनानाविधं जायते। ततस्ते तेजसो लिङ्गम् । ३। तथा लघुशीतरुक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानीत्यनेनोक्ताः पाञ्चभौतिकवायव्यद्रव्यारम्भे वायोलघुशीतरुक्षखरविशदसूक्ष्माः षड़ गुणाः शेषभूत संसर्गादभिव्यज्यन्ते ये प्राग् अनभिव्यक्ता वायावासन्। स्पर्शस्तु नैसर्गिकः पूचभूतसंसर्गाच्छीतश्चलश्च जायते पुनविविध एव जायते। शब्दश्चाव्यक्तः पूव्र्वभूतसंसर्गजः पुनविविध एव जायते। ततस्ते गुणा वायोश्चिह्न मिति । ४ । एवं मृदुलघुमुक्ष्मश्लक्ष्णशब्दगुणबहुलान्यान्तरीक्ष्याणीत्यनेनोक्ताः पाञ्चभौतिकान्तरीक्ष्यद्रव्यारम्भेऽन्तरीक्षादेव मृदुल घुमक्ष्मश्लक्ष्णाः शेषभूतसंसर्गादभिव्यज्यन्ते ये प्रागनभिव्यक्ता अन्तरीक्ष आसन् । शब्दो नैसर्गिकः कार्यभूतो दशविध एव जायते इति, ततस्ते गुणा आकाशस्य चिह्नमिनि । ५। नैते गुणा इन्द्रियारम्भकेषु आत्मजखादिषु वर्तन्ते। न चैकैकाधिकपञ्चखाद्यारम्भेऽपीन्द्रियेषु नान्ये गुणाः संसर्गतोऽभिव्यज्यन्ते यथा प्रात्मकादिषु परस्परानुप्रवेशाभावात् । परस्परसंयोगात् तु परस्परानुग्रहाद् भूयसाल्पगुणावजयाच्च खादकैकगुणशब्दादिरेव श्रोत्रादिषु स्थूलरूपेण जायते। तस्मान्नान्ये गुणा इन्द्रियाणामा भवन्ति ।
के पुनरर्था इत्यत आह-अर्था इत्यादि। यथा पञ्चमहाभूतारब्धेष्विन्द्रियेषु पाञ्चभौतिकशब्दादयः सन्ति तथा पाञ्चभौतिकेषु द्रव्येष्वान्तरीक्ष्यवायव्यतैजसाप्यपार्थिवेषु ये शब्दादयः कार्यभूता विशेषास्तेऽर्था इन्द्रियाणां विषया गोचराश्च उच्यते न तु महाभूतस्था एकग्राद्यात्मकभूतस्था वा, इन्द्रियाणां तथाभावाभावात्। तस्मान्न ते शब्दादय इन्द्रियैर्ग्रहीतु शक्यन्ते। अत एव काय्यभूतशब्दादीनामिन्द्रियार्थत्वं न कारणभूतशब्दादीनां, तस्मादतीन्द्रियत्वं तेषाम् । अत एवोक्तम् रसनाथो रस इति पूर्वाध्याये, तथात्रेयभद्रकाप्यीये चयं पुनः पञ्चानामिन्द्रियार्थानां जिह्वावैषयिकं भावमाचक्षते इति । कणादेनापि शरीरस्थानां भूतानां लक्षणं भवन्तीति वाक्यार्थः। अर्थानाह-अर्था इत्यादि। अर्थशब्देन तु ये शवादयो विशेषास्ते स्थूलखादिरूपा एव ज्ञेयाः। तेन आकाशपरिणाम एव शब्दः, वातपरिणामः
For Private and Personal Use Only