________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम्।
१७८७ गुणाः शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च।
अर्थाः शब्दादयो ज्ञया गोचरा विषया गुणाः ॥ ६ ॥ शीतो द्रव खञ्चाभिव्यज्यते, रूपञ्च शुक्लं भवति। रसश्च साधारणरूपचाव्यक्त एव। तस्य च चतुरात्मकस्य जलस्य भूमावनुप्रवेशात् पञ्चानां खादीनां संयोगेन पञ्चात्मिका भूमिर्यदा भवति, तदा तत्र खवायुज्योतिजैलानां शब्दतो विशिष्टश्चाव्यक्तश्चैव शब्दो भवति, स्पर्शश्च खरः, कृष्णञ्च रूपं, रसश्च जलरसाद्विशिष्टश्चाव्यक्तश्च भवति, गन्धश्च साधारण एव किञ्चित्स्थूलो भवति ॥८॥ ___ गङ्गाधरः-गुरुत्वादयस्तु गुणाः केषां कुतो वा जायन्ते इत्यत आह— गुणाः शरीर इत्यादि। शरीरे पञ्चभूतविकारसमुदाये तच्छरीरारम्भकाणां गुणिनाम् आकाशादीनां गुणा एव गुर्वादयश्चिह्न निर्दिष्टा आत्रेयभद्रकाप्यीये पार्थिवादिक्रमेण पृथगुक्ताः, शरीरविचयशारीरे च वक्ष्यन्ते। तत्रेमे शरीरधातुगुणाः संख्यासामर्थ्यकराः। तद् यथा। गुरुलघुशीतोष्णस्निग्धरुक्षमन्दतीक्ष्ण-स्थिरसर-मृदुकठिन-विशदपिच्छिलश्लक्ष्णखरमक्ष्मस्थूलसान्द्रद्रवा इति । आत्रेयभद्रकाप्यीये चोक्ताः। तद् यथा। सर्व द्रव्यं पाञ्चभौतिकमिति कृता तत्र द्रव्याणि गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानीति । १। तेन पार्थिवद्रव्यारम्भकभूमेः पञ्चात्मिकाया गुरुकठिनमन्दस्थिरविशदसान्द्रस्थूला इति सप्त गुणाः शेषचतुभूतसंसर्गतः कार्यगुणा अभिव्यज्यन्ते ये प्रागनभिव्यक्ता आसन् । शब्दखररपर्शकृष्णरूपास्फुटरसाः पूर्वभूतसंसर्गजाः, गन्धश्चाव्यक्तो यो नैसर्गिकः स पूर्वतो विशिष्टश्चाव्यक्त एव साधारणः पार्थिवे पाञ्चभौतिके ते शब्दादय उदात्तादिदशविधशब्दविविधस्पर्शरूपरसगन्धा व्यज्यन्ते । ततस्ते गुणा भूमेश्चिह्नम् । द्रवस्निग्धशीतमन्दसरसान्द्रमृदुपिच्छिलरसगुणबहुलान्याप्यानीत्यनेनोक्ताः अपां स्निग्धमन्दसरसान्द्रमृदुपिच्छिलाः पड़ गुणाः शेषभूतसंसर्गात् पाञ्चभौतिकेऽभिव्यज्यन्ते। ये प्रागनभिव्यक्ता अप्स्वासन्। शब्दस्पर्शरूपगुणास्तु पूव्र्वभूतसंसर्गजा विशेषेण विशेषाः शान्ता घोराश्च मूढाश्च" इति। तेन इहापि खादीनि 'तन्मात्र'शब्देनोक्तानि सूक्ष्मत्वेन बोद्धव्यानि ॥८॥ ___ चक्रपाणिः-भूतानां सूक्ष्माणां शरीरस्थानां लिङ्गान्तराण्याह-गुणा इत्यादि। गुणाः शब्दादयः। गुणिनामिति सूक्ष्मरूपभूतानामेव । गुणग्रहणात् शब्दादयश्च व्यक्ताः सूक्ष्माणा
For Private and Personal Use Only