SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७८६ चरक-संहिता। कतिधापुरुषीयं शारीरम् आकाशं वाय्वादिवदस्ति इत्याशङ्का आह-स्पर्शनेन्द्रियविज्ञ य इति । विपर्ययः स्पर्शविपर्ययः स चास्पशोऽप्रतीघात एव सोऽपि स्पृश्यानां स्पर्शानुपलब्ध्या स्पर्शनेन्द्रियेण विज्ञायते। यथा गृहे यदस्ति तत् दृश्यते, यन्त्र दृश्यते तन्नास्तीति उच्यते इति । नन्वेवमस्वाकाशीयः शब्दोऽपि स्पर्शनेन्द्रियविज्ञ योऽस्विति चेन्न, आकाशीयो हि शब्दो न खरद्रवादिस्पर्शविपर्ययः । स्वार्थविपर्ययो हि इन्द्रियेण गृह्यते न सव्र्व इति, सुतरां स्पर्शनेन्द्रियेणापि न गृह्यते। वायव्यस्तु शब्दोअनुपविष्टाकाशस्याव्यक्तशब्दत्वेनाव्यक्त एव तस्मान्न श्रोत्रेण न वा स्पर्शनेन • गृह्यते। तैजसाप्यपार्थिवास्तु शब्दा द्वाणुकवदनुपविष्टवायोस्तेजसि प्रवेशेन त्रसरेणुवत् तैजसः शब्दोऽथ तत्तेजोऽनुप्रवेशादपां शब्दस्तजलानुप्रवेशाच्च भौमशब्दश्च न तेजोऽम्वुभूमिष्वभिव्यज्यते तेन न श्रोत्रेण गृह्यन्ते न वा स्पशनेन्द्रियेण। श्रोत्रं हि गगनाधिकपञ्चभूतमयं स्थूलं स्थूलेऽभिव्यक्त शब्द गृह्णाति न खनभिव्यक्तं यद्यदूपं तत्तारूप्येणाथ गृह्णातीति नियमात् । स्पर्शनेन्द्रियस्तु स्पर्श गृह्णाति न शब्द मिति। एवं चक्षुरादिकं पूर्वपूर्वभूतगुणं न गृह्णातीति । अथ अनभिव्यक्तशब्दमात्रगुणमाकाशमप्रतिहननीयामूर्तिमन्निर्गमनप्रवेशलक्षणम् । स्पर्शमात्रगुणः प्रतिहननलक्षणो वायुः, रूपमात्रगुणं प्रतिहननीयमूर्तिमत् तेजः, रसमात्रगुणाः प्रतिघातयोग्यमूर्तिमत्य आपः, गन्धमात्रगुणा प्रतिघातयोग्यमूत्तिमती क्षितिरिति । तत्र दिक्कालयोगाद विशेषरूप एषोऽप्रतिघातलक्षण आकाशो निष्क्रमणप्रवेशलक्षणो भवति। तस्य वायावनुप्रवेशादाकाशवायुयोगाद दद्यालको वायुर्यदा भवति, तदा तत्र शब्दः पूर्वतस्तु विशिष्टोऽनभिव्यक्त एव वर्तते स्पर्शश्च शीतश्चलश्च भवति । तस्य च प्रात्मकस्य पायोस्तेजस्यनुप्रवेशाद् वायुज्योतिःसंयोगाद् यदा यात्मकं तेजो भवति, तदा तत्राकाशवायुशब्दाभ्यां विशेषश्चानभिव्यक्तश्चैव शब्दो भवति, स्पर्शश्चोष्णो भवति रूपञ्च लोहितमिति। तस्य च त्रात्मकस्य तेजसोऽप्सु अनुप्रवेशात् खवायुज्योतिर्जलानां संयोगाचतुरात्मकं जलं यदा भवति, तदा तत्र खवायुज्योतिषां शब्दतो विशिष्टश्चानभिव्यक्त एव शब्दो भवति, स्पर्शश्च गृह्णाति, तत् तस्याभावपि गृह्णाति। तेन आकाशस्यास्पर्शत्वं स्पर्शेन्द्रियग्राह्यमिति युक्तम्। द्रवत्वं चलत्वञ्च सांख्यमते स्पर्शनग्राह्यत्वात् स्थूलभूतवातधर्मः स्पर्श एव । यद्धि स्पर्शनेन गृह्यते तत् सर्व स्पर्शी महामूतवातपरिणाम एव। एतानि खादीनि च सूक्ष्माणि तन्मात्ररूपाणि ज्ञेयानि । स्थूलमूतानि तु खादीनि तत्र विशेषतया सूक्ष्मरूपाणि च तन्मात्राणि भविशेषतयोक्तानि । वचनं हि-"तन्मात्राण्यविशेपास्तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृताः For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy