________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः । शारीरस्थानम् ।
१७८५ खरद्रवचलोष्णत्वं भूजलानिलतेजसाम् ।
आकाशस्याप्रतीघातो दृष्टं लिङ्ग यथाक्रमम् ॥ लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरः । स्पर्शनेन्द्रियविज्ञ यः स्पों हि सविपर्यायः ॥८॥ गङ्गाधरः-एवं पूर्वपूर्वानुप्रवेशे द्विगुणादिवेऽपि यो योऽपरगुणऽभिव्यज्यते तज्ज्ञापनार्थमाह-खरेत्यादि। पूर्वपूर्वानुपविष्टानां भूजलानिल तेजसां खरखादिकं क्रमेण लिङ्गमनुमानकरणमसाधारणम्। आकाशस्य सर्वयैवामिश्रस्याप्रतीघातोऽप्रतिहननमस्पर्शन मिति यावत् लिङ्गं दृष्टम्। न गुणान्तरमभिव्यक्तमाकाशस्येति पृथगत्र वचनमिदं सर्वदाप्यमिश्रभूतत्वख्यापनार्थम्। अमिश्राणान्तु भूजलानिलतेजसां खरद्रवचलोष्णखानि गुणा अनतिव्यक्तखेन सन्तोऽप्यनभिव्यक्तखान्न लिङ्गानि, मिश्रले खभिव्यक्तवात् लिङ्गानि। अप्रतीघातस्त्वाकाशस्य मूक्ष्मखाच्छब्दस्यानेन्द्रियकत्वेऽपि ऐन्द्रियकत्वेन लिङ्गम्। अमिश्राणां खादीनां शब्दादयो गुणा अनन्द्रियका आप्तोपदेश गम्यत्वेन लिङ्गानि भवन्त्यपि ऐन्द्रियकलिङ्गेनानुमानं शिष्याणां सर्वेषाञ्च सुगममित्यतः शब्दादीनां लिङ्गखाभिधानं न कृत्वा खरखादीनां मिश्रभूम्यादीनाम् अमिश्राकाशाद्यनुमानार्थ लिङ्गसमुपदिष्टमिति। स्थूलभूतैः सूक्ष्मभूतानां कार्येरनुमानं भवति । साङ्खोऽप्युक्तम् । अचाक्षुषाणामनुमानेन बोधः, स्थूलात् पञ्चतन्मात्रस्येति ।
ननु खरखादीनां कस्येन्द्रियस्य ग्राह्यवमित्यत आह-लक्षणमित्यादि । एतत् खरद्रवचलोष्णखापतीघातं सर्वं भूजलानिलतेजोगुणानां लक्षणं स्पर्शनेन्द्रियगोचरः। ननूक्तं यद-यदात्मकमिन्द्रियं तत्तदात्मकमेवार्य विशेषादनुधावतीति। तेन खरद्रवचलोष्णवानि स्पर्शविशेषान् स्पर्शनेन्द्रिय गृह्णातु आकाशस्याप्रतीघातस्तु न स्पर्शभेदः स च कथं गृह्णीयात् ? न च स्पर्श विशेषोऽप्रतीघातो वक्तुं शक्यते शुद्धे गगने तदसत्त्वात् न वामिश्रम् __चक्रपाणिः-भूतानामसाधारणं लक्षणमाह-खरेत्यादि। अप्रतीधातोऽप्रतिहननं अस्पर्शत्व. मिति यावत्, स्पर्शवद्धि गतिविघातकं भवति, नाकाशः, अस्पर्शवत्त्वात्। सर्वमेतदिति खरत्वादि। स्पर्शनेन्द्रियगोचरमिति स्पर्शनेन्द्रियज्ञेयम् । कथमेतत् सर्व स्पर्शनेन्द्रिय ज्ञेयमित्याह-स्पर्शनेत्यादि। सविपर्यय इति संस्पर्शाभाव इत्यर्थः । यदिन्द्रियं यद * स्पर्शनेन्द्रियगोचरम् इति चक्रपाणिः ।
For Private and Personal Use Only