________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८४
चरक-संहिता। कतिधापुरुपीयं शारीरम् मिश्रो भवति । ज्योतिः शब्दस्पर्शरूपगुणं तेन त्रिगुणं मिश्रं भूतं भवति । आपः शब्दस्पर्शरूपरसगुणास्तेन चतुर्गुणाः मिश्राश्च भवन्ति। क्षितिः शब्दादिपञ्चगुणा मिश्रा च भवति । इत्येवं पञ्चभूतान्यव्यक्ताज्जात आत्मा महांस्तद्विशेषश्चित्तमहङ्कारश्चेति त्रयस्तथाहङ्कारिकाणि मनोदशेन्द्रियाणीत्येकोनविंशतिमुखः शब्दमात्राद्यात्मकानि पञ्च भूतानि सप्तधा चाङ्गानीति सप्ताङ्गोऽन्तःप्रज्ञः प्रविविक्तभुक् स्वमस्थानोऽन्तरात्मा तैजसो नाम पड़धातुः पुरुषः। तत्राव्यक्ताख्यश्चेतनाधातुः शेषाणि पञ्च महाभूतानीति षड़धातव इति । मनुनापि अनुप्रवेशेन पूर्वपूर्वस्य परपरधातौ मिश्रवमुक्तम्। तद् यथा-मनः सृष्टिं कुरुते चोद्यमानं सिम्रक्षया । आकाशं जायते तस्मात् तस्य शब्दगुणं विदुः । आकाशात् तु विकु णात् सव्वगन्धवहः शुचिः। बलवान् जायते वायुः स वै स्पर्शगुणो मतः। वायोरपि विकुर्वाणाद विरोचिप्ण तमोनुदम्। ज्योतिरुत्पद्यते भास्वत् तद्रूपगुणमुच्यते। ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः। ताभ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः । इत्यस्मात् पूर्वमुक्तम् । आद्याद्यस्य गुणांस्त्वेषामवामोति परः परः । यो यो यावतियश्चैषां स स तावदगुणः स्मृतः ॥ इत्युक्तम् । एवं मुण्डककाठकोपनिषदि च-एतस्माज्जायते प्राणो मनोबुद्धीन्द्रियाणि च । खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी। इत्युक्तम्। एपां शब्दगुणस्यानभिव्यक्तखात् तद् णस्याकाशस्यानुप्रवेशेऽपि शब्दस्याभिव्यक्त्यभावाद यात्मकादिवाय्वादिष द्वित्रिचतुःपञ्चगुणा उक्ताः, कणादन वैशेपिके तु नोक्ताः। स्पर्शवान वायुश्चलः, तेजो रूपस्पशेवत, रूपरसस्पर्शवत्य आपो द्रवाः, रूपरसगन्धस्पर्शवती पृथिवीति। तथा स्पर्शश्च वायोलिङ्गम्, तेजसो रूपम्, अपां रसः, पृथिव्या गन्ध इति । प्रात्मकादिषु शब्दानभिव्यक्तखान कणादेनोक्तम्। मन्वादिभिस्तु नागुणं द्रव्यमुत्पद्यते इति ज्ञापनार्थ शब्दगुण आकाश उपदिष्ट इति न विरोध इति ॥७॥
इत्याह--- पूर्व इत्यादि । गुणिषु ग्वादिषु धातुषु पू गुणः क्रमेण यथासंख्यं वर्तते, न केवलं पूर्वः, किन्तु पूर्वस्यापि यो गुणः, स च पूर्वगुण उत्तरे भूते वर्त्तते। तेन खे पूर्व पूर्वः शब्दगुणो वर्तते, वायौ तु स्पर्शः क्रमप्राप्तः पूर्वो भवति, पूर्वगुणश्च शब्द इति द्विगुणत्वम् । एवमग्न्यादौ च ज्ञेयम् । गन्धस्तूत्तरगुणान्तराभावात् न पूर्वो भवति, तथापि "गन्धश्च तद्गुणाः' इति ग्रन्थे तद्गुणाः इतिपदापेक्षया गन्धस्य पूर्वत्वं कल्पनीयम्। किंवा पूर्व इति च्छत्रिणो गच्छन्तीतिन्यायेनोक्तम्, तेन, अपूर्वोऽपि गन्धः क्रमागतः पृथिव्यां ज्ञेयः ॥ ७ ॥
For Private and Personal Use Only