SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः शारीरस्थानम्। १७८३ तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे।। पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मृतः ॥७॥ वैकारिकात् अहङ्कारान्मनोऽभूत्, तैजसाद्वाजसाद वैकारिकसहायात् तु दशेन्द्रियाणि बभूवुः, ततः खादिभ्यः पश्चार्थाः शब्दादयः पूर्वपूर्वभूतानुप्रवेशाच्च पश्च भूतानि बभूवुः इति । तदुक्तं मुण्डकोपनिषदि । दिव्यो ह्यमूर्तः पुरुषः स वाह्याभ्यन्तरो ह्यजः। अप्राणो ह्यमनाः शुभ्रो ह्यक्षरः परतः परः। एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। वं वायुज्योतिरापः पृथिवी विश्वस्य धारिणीति । एतदेवाभिप्रेत्याह–तपामित्यादि । तेषां खादीनां मध्ये पूर्वः खनामा धातुः दिक्कालसंयोगात् किञ्चित् स्थलो भूखा किञ्चिदभिव्यक्तशब्द एको गुणो यस्य एकगुणः। किञ्चिदभिव्यक्तशब्दैकगुण आकाशोपादानाकाशः शुद्ध एव न मिश्रः। परे परे धातौ वायबादौ गुणद्धिः । खापेक्षया वायौ गुण द्विर्वाय्वपेक्षया तेजसि गुणद्धिस्तेजोऽपेक्षयाप्सु गुणद्धिलापेक्षया क्षिती गुणद्धिः। ननु परे परे धातो खाद्यपेक्षया कथं गुणद्धिः स्यात् कियद गुणद्धिर्वा स्यादित्यत आह-पूर्व इत्यादि। गुणिषु खापेक्षया परपरगुणिषु स्पर्शादिमत्सु वाय्वादिषु पूर्वः पूर्वपूबैः खादिः धातुः क्रमशः स्मृतः अनुप्रविष्टत्वेन स्मृतः। ननु किं पूर्वपूर्वधातुः स्वस्वगुणं विहाय मूत्यंशमात्रेणानु प्रविष्टः किमथ सगुण एवेत्यत आह-पूच्चगुणश्चैवेति। निरुक्तः शब्दादियो यो यस्य यस्य पूर्वस्य पूर्वस्य गुणः स स चैव क्रमशो गुणिषु तत्र तत्र परे परे स्पर्शादिगुणमात्रवातादौ धातौ अनुपविष्टत्वेन स्मृतः। एवकारेण खादीनां पूर्वपूर्वधातूनामनभिव्यक्तगुणाभिव्यक्तिव्यवच्छेदः। खं हि पूर्व न परं वाय्वादिश्च पूर्वपूर्वापेक्षया परः परपरापेक्षया तु पूर्व इति । तथा च खं शब्दैकगुणं शुद्धं भूतमस्ति। वायुः शब्दस्पर्शगुणस्तेन द्विगुणो संख्य ग्शदानां नैसर्गिका गुणाः ज्ञेयाः। यस्तु गुणोकोऽभिधातव्यः, स हि अनुप्रविष्टमूत सम्बन्धादव । तेन पृथिव्यां चतुर्मूतप्रवेशात् पञ्चगुणत्वम् । एनं जलादावपि चतुर्गुणत्वादि ज्ञेयम् । नैसर्गिक गुणमभिधाय भूतान्तरनवेशकृतं गुणमाह तेषामित्यादि । एकगुणः पूर्व इति यूवा धातुस्वरूपः शनैकगुणः। पुलिङ्गता च खादीनां धातुरूपताबुद्धिस्थीकृतत्वात्, उक्तं हि-खादयश्चेतनाषष्टा धातवः इति। यथा यथा च परत्वम् तथा तार च गुणवृद्धिः यथासंख्यम् । ननु एतावताप्येकगुणत्वद्विगुणत्वादि न नियमेन ज्ञायते, को गुगः क्व भूत For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy