________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८२
चरक-संहिता। कतिधापुरुषीयं शारीरम् पायूपस्थौ विसर्गार्थो हस्तौ ग्रहणधारणे । जिह्वा वागिन्द्रियं वाक च सत्या ज्योतिस्तमोऽनृता ॥६॥ महाभूतानि खं वायुरग्निरापः क्षितिस्तथा।
शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तद्गुणाः॥ वीजाधिक्यादिनिमित्तनो वहिःशरीरे शिश्नादिरूपेणाभिव्यज्यते। अन्यथा प्राग व्यक्तीभावात् पुंसवनेन पुत्रजननानुपपत्तिः; मूक्ष्मदेही तु न स्त्री न पुमान न नपुंसकमिति । कर्माणि चैषामाह-पादावित्यादि। गमनकम्मणि पादौ वर्त्तते इति प्राधान्यान्मनुष्याभिप्रायेण। विसर्गार्थ पुरीषस्य विसर्गकर्मणि पायुः। मूत्ररेतसोर्विसर्गकर्मप्युपस्थो वर्त्तते। हस्तौ ग्रहणधारणे कर्मणि । जिह्वा तात्स्था जिह्वास्थमिन्द्रियं वाचि कर्मणि वर्तते । वाक् च द्विधा सत्या अनृता च, तत्र सत्या ज्योतिः प्रकाशकखात् । अनृता तमो मोहजनकखात् । यद्यपि तेजोमयी वाक् तथापि सत्त्वतमोयोगा सत्यानृता भवति। इतीन्द्रियाणि दशोपदिष्टानि भवन्ति ॥६॥
गङ्गाधरः--अथैषामर्थानाञ्च प्रकृतीराह-महाभूतानीत्यादि। यानि भूतादितस्तामसादहङ्कारादादौ भूतानि तेषामितरेभ्यः कार्येभ्यो भूतेभ्यो वृहत्त्वान्महाभूतेतिसंज्ञा। तानि कीदृशानीत्यत आह-- शब्द इत्यादि । तद्गुणाः क्रमेण तेषां खादीनां गुणाः शब्दादय एव पञ्च । शब्दमात्रगुण आकाशः स्पशमात्रगुणो वाय रूपमात्रगुणोऽग्निस्तेजः रसमात्रगुणा आपो गन्धमात्रगुणा क्षितिरिति । तयानभिव्यक्तः शब्द इहोपदिष्टः, सगुणमेव द्रव्यमुत्पद्यते न तु निर्गुणमिति ख्यापितं, तेनाकाशादुत्पत्तिकालेऽनभिव्यक्ता आकाशादीनां मृदुलघसूक्ष्म-श्लक्ष्ण-शीत-रुक्ष-खरविशदतीक्ष्णोष्ण-द्रवस्निग्ध-मन्दसरसान्द्रपिच्छिलगुरुकठिनस्थिरस्थूला विंशतिगुणाः शब्दस्पर्शरूपरसगन्धसहचरिता नोपदिष्टाः शब्दादिसाहित्येनानभिव्यक्ताः सन्तीति ख्यापनार्थ पूर्वाध्यायेऽभिहितम् । सार्था गुदिय इति न बर्था गुदिय इत्युक्तम् । खादीन्येतानि पञ्च प्राणा उच्यन्ते। इत्याहकारिकाणि मनो दशेन्द्रियाणि चत्येकादश सात्त्विकात् गुदोपस्थे चैकैकम् । वाच उपादानहानार्थ भेदमाह- - वाक् चेत्यादि। ज्योतिरिव ज्योतिधर्मकत्तत्वेन उभयलोकप्रकाशकारित्वात्। एतद्विपर्ययेण तमः, अनृता सत्यविपर्ययेणेति ॥ ६॥
चक्रपाणिः-सम्प्रति उद्देशक्रमानुरोधादभिधातव्यार्थानां प्रकृतिग्रहणगृहीतपञ्चभूतपञ्चगुण. तया पराधीनत्वादष्टधातुप्रकृतिगृहीतादिभूतान्येव तावदाह- महाभूतानीत्यादि । शब्दादयो यथा.
For Private and Personal Use Only