SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः शारीरस्थानम्। १७८१ हस्तपादं गुदोपस्थं जिह्वन्द्रियमथापि च। कम्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि ॥ लब्धिः। सति च वाह्यप्रकाशानुग्रहे शीतस्पर्शीपलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य चक्षषा न ग्रहणं रूपस्यानुभूतत्वात् । सेयं रूपानभिव्यक्तितो रूपाश्रयस्य द्रव्यस्यानुपलब्धिर्ट टा। तत्र यदुक्तं तदनुपलब्धेरहेतुरिति, तदयुक्तम्, कस्मात ? पुनरभिभवोऽनुपलब्धिकारणं चाक्षषस्य रश्मेनौच्यते इति । अनभिव्यक्तौ चाभिभवात्। वाद्यप्रकाशानुग्रह निरपेक्षायाञ्चेति चार्थः । यद्रूपमभिव्यक्तमुद्भूतं वाह्यप्रकाशानुग्रहश्च नापेक्षते तद्विषयो. ऽभिभवः, विपर्ययेऽभिभवाभावात् अनुभूतरूपखाचानुपलभ्यमानं वाह्यपकाशानुग्रहाच्चोपलभ्यमानं नाभिभूयत इति। एवमुपपन्नश्वास्ति चाक्षषो रश्मिरिति । नक्तं नक्तञ्चरनयनरश्मिदर्शनात् । दृश्यन्ते हि नक्तं नयनरश्मयो नक्तञ्चराणां दृषदंशप्रभृतीनाम्, तेन शेपस्यानुमानमिति । जातिभेदवदिन्द्रियभेद इति चेत् ? धर्षमात्रञ्चानुपपन्नम्, आवरणस्यार्थप्राप्तिप्रतिषेधार्थस्य दर्शनादिति। प्राप्तार्थग्रहणमप्राप्यग्रहणनिरासश्च पूर्वमिन्द्रियोपक्रमणीये दर्शितमिति । भौतिकवमिन्द्रियाणां स्थूलशरीरे सर्वसम्मतं दर्शितमिति । नन्वेवं भवन्तु पञ्च बुद्धीन्द्रियाणि कानि पुनरपराणि पश्च यत उक्तं दशेन्द्रियाणीति ; तत आह-हस्तपादमित्यादि। हस्तपादगुदोपस्थजिह्वमिति पश्च कर्मेन्द्रियाणि। एवशब्देन वाह्यतो दृष्टानां हस्तपदादीनाम् अनेकत्वं व्याहत्तम् । हस्तादीनि हि पञ्चैवाहकारिकाणीन्द्रियाणि तेषामेकैकमेव स्थलशरीरारम्भे प्रथमत आत्मकृतानि पञ्चभूतांशविशेषमनुप्रविश्यकैकहस्तपादादिकं भवदेव शुक्रशोणितादिकारणान्तरसहयोगेन योनिविशेषधर्मनियमाद् विपाणिपादादिरूपेणैवाङ्गविशेषो जायते तस्मात् पञ्चैव कर्मेन्द्रियाणि न खतिरिक्तानि। वक्ष्यन्ते चात्रात्मकार्याणि तासु तासु योनिषु उत्पत्तिरायुरात्मशानं मन इन्द्रियाणि प्राणापानावित्यादीनि । तत्रापि धर्माधर्मनिमित्तं हस्तादीनां वाह्यतोऽभिव्यक्तयनभिव्यक्ती देवनरादिदेहे भवत इति। प्राप्यङ्गलादेकवचनं हस्तपादं गुदोपस्थमिति । उपस्थस्वनियतलिङ्गं सामान्यरूपः, न तु पुंलिङ्गं स्त्रीलिङ्गं क्लीवलिङ्गं वा रूपादिवत् । शुक्रादि अथ कम्र्मेन्द्रियाण्याह-हस्तावित्यादि। हम्तावेकं पादौ चैकमिन्द्रियमेकरूपकर्मकर्तृतया। * हस्तौ पादौ गुदोपस्थे इति चक्रतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy