________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८०
चरक-संहिता। कतिधापुरुपीयं शारीरम् उद्भूतरूपमनुभूतस्पशञ्च प्रत्यक्षम्। यथा प्रदीपरमय इति । उदभूतस्पशेमनुभूतरूपमप्रत्यक्षं यथा अबादिसंयुक्तं तेजः। अनुभूतरूपस्पशोऽप्रत्यक्षश्चाक्षुषो रश्मि रिति। कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः । यथा चेतनस्यार्थी विषयोपलब्धिभूतः सुख दुःखोपलब्धिभूतश्च कल्प्यते, तथेन्द्रियाणि व्यढ़ानि । विषयप्राप्ताथेश्च रश्मेश्चाक्षुषस्य व्यूहः। रूपस्पर्शानाभिव्यक्तिश्च व्यवहारप्रक्लप्तार्था। द्रव्यविशेषे च प्रतिघातादावरणोपपत्तिव्र्यवहारार्था। सव्वेंद्रयाणां विश्वरूपो व्यहः। इन्द्रियवत् कर्मकारितः पुरुषार्थतन्त्रः। कर्म तु धमाधम्म भूतं चेतनस्योपभोगार्थमिति। अव्यभिचाराच्च प्रतीघातो भौतिकधर्मः। यश्चावरणोपलम्भादिन्द्रियस्य द्रव्यविशेषे प्रतीघातः, स भौतिकधर्मो न भूतानि व्यभिचरति । नाभौतिक प्रतिघातधम्मक दृष्टमिति । अप्रतिघातस्तु व्यभिचारी। भौतिकाभौतिकयोः समानखादिति। यदपि मन्यते प्रतिघाताझौतिकानीन्द्रियाण्यप्रतिघातादभौतिकानीति प्राप्तम्। दृष्टश्चाप्रतिघातः काचाभ्रपटलस्फटिकान्तरितोपलब्धेः । तन्न युक्तम्, क स्मात् ? यस्माद् भौतिकमपि न प्रतिहन्यते। काचाब्भ्रपटलस्फटिकान्तरितप्रकाशात् प्रदीपरदमीनाम्। स्थाल्यादिषु पाचकस्य तेजसोऽप्रतिघातः। उपपद्यते चानुपलब्धिः कारणभेदादिति ।। मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः । इति। यथानेकद्रव्येण समवायाद रूपविशेषाञ्च रूपोपलब्धिरिति, सत्यप्युपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो नोपलभ्यतेआदित्यप्रकाशेनाभिभूतः। एवं महदनेकद्रव्यवत्त्वाद् रूपविशेषाच्चोपलब्धिरिति, सत्यप्युपलब्धिकारणे चाक्षुषो रश्मिनोपलभ्यते निमित्तान्तरतः। तच्च व्याख्यातम् अनुभूतरूपस्पशेद्रव्यस्य प्रत्यक्षतोऽनुपलब्धिरिति । अत्यन्तानुपलब्धिश्चाभावकारणात् । ___ यो हि ब्रवीति-लोष्ट्रप्रकाशो मध्यन्दिन आदित्यप्रकाशाभिभवान्नोपलभ्येतेति तस्यैतत् स्यात् । न रात्रावप्यनुपलब्धः। अप्यनुमानतोऽनुपलब्धि. रिति । एवमत्यन्तानुपलब्धेलौष्ट्रप्रकाशो नास्ति, न त्वेवं चक्षुषो रदिमरिति । उपपन्नरूपा चेयम् वाह्यप्रकाशानुग्रहाद्विषयोपलब्धेः अनभिव्यक्तितोऽनुपलब्धिः। वाह्य न प्रकाशनानुगृहीतं चक्षुविषयग्राहकम्, तदभावेऽनुप
किंवा औपचारिकमेतद भौतिकत्वमिन्द्रियाणां ज्ञेयम्। उपचारवीजञ्च यद्गुणभूयिष्टं यदिन्दिर गृह्णाति, तप्तटिष्टमुच्यते। चक्षुरतेजो गृह्णाति, तेन तैजसमुच्यते इत्यादि ज्ञेयम् ।
For Private and Personal Use Only