________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मि अध्यायः
शारीरस्थानम् ।
१७७६ लब्धिरिति। व्यतिरिच्य कृष्णसारमवस्थितस्य विषयस्योपालम्भो न कृष्णसारप्राप्तस्य। न चापाप्यकारिखमिन्द्रियाणामिति। तदिदमभौतिकत्वे विभुखात् सम्भवति। एवमुभयधर्मोपलब्धेः संशयः। तत्राभौतिकानीन्द्रियाणीत्याह। कस्मात ? महदणग्रहणात्। महदिति महत्तरं महत्तमञ्चोपलभ्यते ; यथा न्यग्रोधपर्वतादि । अण्वित्यणतरमणतमञ्च गृह्यते : यथा-- मृच्यग्रधानादि । तदुभयमुपलभ्यमानं चक्षुपो भौतिकत्वं वाधते। भौतिक हि यावत् तावद व्यामोति। अभौतिकन्तु विभुखात् सव्वव्यापकमिनि । न महदणग्रहणमात्राद अभौतिकत्वं विभुत्वञ्चेन्द्रियाणां शक्यं प्रतिपत्तम्। इदं खलु-रसम्यर्थसन्निकर्षात् तद्ग्रहणम्। तयोम हदण्वोहणम् चक्षरश्मेरर्थस्य च सन्निकर्षविशेषाद भवति ; यथा--प्रदीपरश्मेरर्थस्य चेति । रम्यर्थसन्निकर्षश्वानावरणलिङ्गः। चाक्षुषो हि रश्मिः कुड्यादिभिरातमर्थ न प्रकाशयति : यथा-प्रदीपरश्मिरिति । अनावरणानुमेयत्वे सतीदमाह। तदनुपलब्धेरहेतुः । रूपस्पर्शशब्दवद्धि तेजो महत्त्वादनेकद्रव्यवत्त्वाद रूपवत्त्वाच्च तदुपलब्धिरिति । प्रदीपवत् प्रत्यक्षत उपलभ्येत ; चक्षुषो रश्मियदि स्यादिति। नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः। सन्निकर्षप्रतिषेधार्थनावरणेन लिङ्गेनानुमीयमानस्य रश्मेर्या प्रत्यक्षतोऽनुपलब्धिः नासावभावं प्रतिपादयति ; यथा चन्द्रमसः परभागस्य, पृथिव्याश्चाधोभागस्येति। द्रव्यगुणधर्मभेदात् चोपलब्धिनियमः। भिन्नः खल्वयं द्रव्यधम्मो गुणधर्मश्च। महदनेकद्रव्यवच्च विभक्तावयवमाप्यं द्रव्यं प्रत्यक्षतो नोपलभ्यते, स्पर्शस्तु शीतो गृह्यते । तस्य द्रव्यस्यानुबन्धात् हेमन्तशिशिरौ कल्प्येते। तथाविधमेव च तैजसं द्रव्यमनुभूतरूपं सह रूपेण नोपलभ्यत, स्पर्शस्वस्योष्मा चोपलभ्यते, तस्य द्रव्यस्यानुबन्धात् ग्रीष्मवसन्तौ कल्प्येते। यत्र त्वेषा भवति। अनेकद्रव्यसमवायाद रूपविशेषाच्च रूपोपलब्धिः। यत्र रूपश्च द्रव्यञ्च तदाश्रयः प्रत्यक्षत उपलभ्यते रूपविशेषस्तु यद्भावात् कचिद्रपोपलब्धिः यदभावाच्च द्रव्यस्य कचिदनुपलब्धिः, स रूपधम्मोऽयमुद्भवानुद्भवः समाख्यात इति। अनुदभूतरूपश्चायं नायनो रश्मिः, तस्मात् प्रत्यक्षतो नोपलभ्यत इति । दृष्टश्च तेजसो धर्मभेदः। उद्भूतरूपस्पशवत् प्रत्यक्षं तेजः, यथा आदित्यरश्मयः ।
तानीमानि पञ्चेति दर्शयति । यद्यपि च सांख्ये आहङ्कारिकाणीन्द्रियाणि, यदुक्तम्- "सात्त्विक एकादशकः प्रवर्तते वैकृतादहकारात्" इति, तथापि मतभेदाढ भौतिकत्वमिन्द्रियाणां ज्ञेयम् ।
For Private and Personal Use Only