________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७६
चरक-संहिता। कतिधापुरुषीयं शारीरम् द्रव्येषु यन्मनः कणादेनोक्तं तत्कारणद्रव्याणामुद्दशे न तु कार्यद्रव्येषु । तद्रव्याणां सजातीयारम्भकखञ्चोक्तं तेन तदाहङ्कारिकमनसः कार्यमिदं मन इह तन्त्र पुनव्वेसुनात्रेयेणोपदिष्टं चतुविंशतिके पुरुष। तदुत्पत्युपदेशे खुड्डीकागर्भावक्रान्तिशारीरे वक्ष्यते। आत्मजानि यानि तानि यथा-तासु तासु योनिषत्सत्तिरायुरालशानं मन इन्द्रियाणि प्राणापानावित्यादि। तत्रात्मा पधातुः पुरुषस्तस्माज्जातं मन इदं तत्स्थमाहङ्कारिकं मनः शुक्रशोणितसंयोगं .. गर्भाशयगतमवक्रम्य तेन षड्धातुकेनात्मना प्रथमं यानि पञ्च महाभूतानि सृज्यन्ते तत्र या पृथिवी गन्धमात्रा तस्या अणिष्ठभागनैकीभूय मन इदमारभते। ततो भौतिकं किन्तु भूतांशत आहङ्कारिकमनोऽशवाहुल्याच मनःसंज्ञ द्रव्यम् । तदुक्तं छान्दोग्योपनिषदि । त्रित्करणश्रुतौ। अन्नमशितं त्रेधा विधीयते। तस्य यः स्थविष्ठो धातुस्तत् पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मन इति अन्नभयं हि सौम्यं मन इति। (तन्न भूतात् पृथग् द्रव्यवचनात् । त्रिकरणश्रुतौ हुक्तम् येनान्नमशितं तस्य मनो जातोत्तरकालमन्नन पुष्यति न तु गभस्य जायमानस्य मन आरभ्यते इति । गर्भारम्भे ह्याला गर्भाशयमवक्रम्य शुक्रशोणितसंयोगमनुपविश्य सत्त्वकरणो मनो विकुाणो यथा पश्च महाभूतानि सृजति तथा सत्त्वरजस्तमांसि तांस्त्रीन् सत्त्वबहुलान् गुणांस्वाहङ्कारिकमनोऽनुप्रविश्येदं स्थूलं मनः सृजति इत्यात्मजं मनः। ) सत्त्वं तदिदं मनोऽपि मनसारब्धवान्मनोमयखान्मनःसंशमुक्तं काय्यद्रव्यं देहेन्द्रियविषयरूपपृथिव्यादिकाय्यद्रव्यवत्। ( वक्ष्यते ह्यतुल्यगोत्रीये। रूपाद्विरूपप्रभवः प्रसिद्धः कत्मिकानां मनसो मनस्त इति ।) तथैकमण चानित्यं ज्ञानायोगपद्यलिई न तु नित्यं मृतस्य बुद्धिमनइन्द्रियादीनां नाशात् पश्चानामात्तस्थानां भूतानामवशेषतात् । तद्वक्ष्यति चातुल्यगोत्रीये। भूतानि चत्वारि च कर्मजानि यान्यात्मलीनानि विशन्ति गर्भम्। स वीजयां ह्यपरापराणि देहान्तराण्यात्मनि याति याति। इति। तथात्रापि वक्ष्यते । शरीरं हि गते तस्मिन् शून्यागारमचेतनम्। पञ्चभूतावशेषत्वात् पञ्चवं गतमुच्यते। इति। ये तु मनो नित्यमाहुस्ते सूक्ष्मदेहिस्थमाहङ्कारिकमनोऽभिप्रेत्य ये चानित्यमाहुस्ते तन्मनोजातं चतुव्विंशतिकपुरुषस्थं मनोऽभिप्रेत्यैवेत्येवं न विदिखा प्रमत्ता विवदन्ते। इति । उभयमेवेदं मन एकमणु च शानायोगपद्यलिङ्गमभोनिकञ्च। गौतमेनाक्षपादेनोक्तं प्रथममत्रस्य भाष्ये वात्स्यायनेन व्याख्यातम् । इन्द्रियस्य वै सतो मनस इन्द्रियेभ्यः पृथगुपदंशो
MAHARMATHA
For Private and Personal Use Only