________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७४
चरक-संहिता। कतिधापुरुषीयं शारीरम् प्रत्ययात्। यैः पार्थिवपरमाणभिरारब्धाणुभिरारब्धस्तव घटस्तैः पार्थिवपरमाणुभिरारब्धाभिरारब्धोऽयं घट इति द्विपरमाणुरूपस्य सामान्यस्य धम्मस्या भिन्नस्यैव प्रत्ययादन्यनित्तिरूपत्वं सामान्यं नेति बोध्यम् । ननु यदि सामान्यं समानखं तदा भेदाभावादेकस्य तद्घटादेः प्रत्यभिज्ञानं नास्तु, यथा सोऽयं घट इति सादृश्यश्च न सामान्यं भवतु ; योऽसौ चन्द्रस्तदिदं मुखम इति प्रत्यभिज्ञानापत्तेरित्याकालायामाह--न तत्त्वान्तरं सादृश्यं प्रत्यक्षोपलब्धेः । तत्त्वान्तरं सादृश्यं न सामान्यम् । तद्भावस्तत्त्वं तत्त्वान्तरं तद्धर्मान्तरं यत् सादृश्यं तन्न सामान्यम्। कस्मात् ? प्रत्यक्षोपलब्धेः। दृश्यते हि प्रत्यक्ष न गोगनयोः सादृश्य, सादृश्यं पुनोगवययोरिति । तद्धन्तिरं गोलगवयनभिन्नं तदाकाररूपं धर्मान्तर मिह सादृश्यं न सामान्यम् । तच्च न प्रत्यभिज्ञायत इति। योऽसौ चन्द्रस्तदिदं मुखमित्येवं प्रत्यभिज्ञानं न भवति, सोऽयं घट इत्येवं प्रत्यभिज्ञानन्तु भवत्येवेति। अथ निजशत्यभिव्यक्तिर्वा वैशिष्टयान तदुपलब्धः। न सामान्यमित्यनुवर्तते। निजशत्यभिव्यक्तिर्वा सामान्यं नाभिधीयते किन्तु तद्भिन्नस्य तदगतधर्मवत्त्वमिति । निजस्य स्वस्य स्वस्य गुणकर्मप्रभावरूपायाः फलसाधनहेतुभूतायाः शक्तरभिव्यक्तिने सामान्यम्। शक्त्या हि कार्यवमापद्यते। यथा घटाद्यारम्भकद्वाणुकैः स्वस्वशक्त्या घटादित्वेन परिणम्यते। न तु शक्तिं विनेति शत्यभिव्यक्तिन सामान्यम्। कस्मात ? तद्वशिष्टयात् तदुपलम्भात् । स्वस्वशक्तेविशिष्टरूपतयैव कार्येष्व भिव्यक्तरुपलम्भात् कार्येषु घटादिषु न स्वरूपेण शक्तिरुपलभ्यते। ननु तहि प्रत्यभिज्ञानं किं संज्ञासंशिसम्बन्धरूपस्य सामान्यस्य भवतीत्याशङ्कायामाह-न संज्ञासंझिसम्बन्धोऽपि। यत् सामान्यस्य प्रत्यभिज्ञानमुक्तं तत् सामान्यं संज्ञासंशिसम्बन्धोऽपि न। कस्मात् ? अपिशब्दात् पूर्चहेतोः । वैशिष्ट्यात् तदुपलब्धेरिति । घटादिः संज्ञा तद्वाच्यघटादिवस्तुसंशितयोः सम्बन्धो वाच्यवाचकभावः । स च न प्रत्यभिज्ञायां सामान्यम् । घटायारम्भकाणां परमाणुसमाधाणुकानां विशेषरूपेण घटादिसंशाया उपलम्भात्। ननु घटादिसंज्ञानां घटादिवस्तुवाचिवसम्बन्धो नित्य एव ततः सोऽयं घट इति प्रत्यभिज्ञानं भवति कथं न संज्ञासंशिसम्बन्धस्य सामान्यस्य प्रत्यभिज्ञानं स्यादित्यत आह-न सम्बन्धनित्यतोभयानित्यत्वात्। संशया सह संशिनः सम्बन्धस्य वाच्यवाचकभावस्य न नित्यतास्ति कस्मादित्यत आह---उभयानित्यखात् । उभयं हि संज्ञा च संशि च न नित्यं कथं तयोः
For Private and Personal Use Only