________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७२
चरक-संहिता। कतिधापुरुषीयं शारीरम् भेदान्नानासमवस्थावत् । अस्मिन्नेकैकस्मिन् खलु पुरुषे प्रयत्नशानयोरयोगपद्यान्मनस एकत्वेऽपि गुणपरिणामभेदात् सत्यादिगुणानां परिणामविशेषेणेकैकस्य नानात्वेन नानासमवस्थावत् । प्रतिक्षणं ह्यस्मिन्नस्मिन् पुरुषे. ऽवस्था यथा परिणमति तदवस्थादन स स एकैकः पुरुषस्तत्तदावस्थिको नाना भवति । यथा वालपोगण्डयुवकिशोरमध्यस्थविररूपः। तथा प्रतिक्षणं मनः सत्त्वादिपरिणामे सात्विकं ब्राह्मसत्त्वं देवसत्त्वमाषसत्त्वमित्यवमादिकं, राजसश्च तामसञ्चैवं बोध्यम् ।। __ ननु ज्ञानक्रिययोरयोगपद्यान्मनस एकत्वं नानुमीयते व्यभिचारात् । एकं ह्यपि महद् बहूनि वस्तूनि व्यानोति यथाः । एवमेवैकमपि मनोऽनकेविन्द्रियेषु व्याप्य प्रवत्तितु प्रसज्यत इत्यत आह-न व्यापकत्वं मनसः करणखादिन्द्रि र वा। मनसो न व्यापकत्वं सम्वन्द्रियव्यापकस्पर्शनेन्द्रियसमवायेन चेतस्तु व्यापकमपि क्रमेण स्पशेनेन्द्रियवर्मना सर्वदंहगाम्यपि न युगपत् सव्वंटेहगामि व्यापक म्। कस्मात् ? करणखात्। करणं हि कशीनं नानककम्मे युगपत् कत्तु मेकं प्रभवति, कत्तु रेकखात् । नन्वेकोऽपि कर्ता दीर्घदा डेनानकान् युगपत् कर्तुं प्रभवत्यवेत्यत आह-इन्द्रियखाद्वा। इन्द्र लिङ्गमित्यर्थे निपातनादिन्द्रियम् । इन्द्रस्यात्मनो लिङ्गमित्यतो मनो न व्यापकम्। तेन सर्वन्द्रियव्यापकत्वेऽपि स्पर्शनेन्द्रियस्य तत्समवायन मनसो न सर्वव्यापकमिति। एतेनैवं शापितम्-अणखादकत्वाच्च मनो न व्यापकं, न ह्यण चैकमेककालमनेकेषु प्रवर्तितु प्रभवतीति भावः । ननु मनोऽभ्यन्तरेन्द्रियं कथमस्य वहिरिन्द्रियेषु योगः स्यादित्यत आहसक्रियखादगतिश्रुतेः। अव्यापकमपि मनः सम्बन्द्रियव्यापकस्पर्शनेन्द्रियसमवायेन सचेष्विन्द्रियेषु स्वाभिमतार्थग्रहणायात्मना प्रेरितं गन्तु प्रभवति सक्रियत्वात्। मनसः सक्रियत्वञ्च गतिश्रतः। छान्दोग्योपनिषाद हुक्तम् । उद्दालको हारुणिः श्वेतकेतुपुत्रमुवाच। स्वमान्तं मे सौम्य विजानीहि । यत्रतत्पुरुषः स्वपिति नाम स सौम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादनं स्वपितीत्याचक्षते। स्वं ह्यपीतो भवति । स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतिखान्यत्र नायतनं लब्ध्वा बन्धनमेवोपश्रयते । एवमेव खलु सौम्य तन्मनो दिशं दिशं पतिखान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते पाणवन्धनं हि सौम्य मन इति । पतित्वेत्युक्त्या गतिमेनसः श्रूयते। ननु मनसोऽणत्वेन सक्रियत्वं कथमुपपद्यते ? क्रिया ह्यवयविनां दृश्यते मनस्वणु
For Private and Personal Use Only