________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः
शारीरस्थानम्।
१७७१ बुद्धीनामाशुत्तिवान् क्रमो गृह्यते। तदेतदनुमानमतन्त्रं बुद्धिक्रियायोगपद्याभिमानस्येति । न चास्ति मुक्तसंशया युगपदुत्पत्तियुद्धीनाम्, यया मनसो बहुलमेकशरीरेऽनुमीयेतेनि। . एकञ्च महदेकदा बहुन व्याप्तुमर्हनि मूर्यवदिति। तत्राह --यथोकहेतुवाचाणु। इति। अण मन एकञ्चेति धर्मसमुच्चयो ज्ञानायौगपद्यात् । महत्त्वे मनसः सर्वन्द्रियसंयोगाद युगपद्विषयग्रहणं स्यात् तस्मादकमण च मन इति तत्त्वम् । कणादेनापि वैशेषिकन्याये प्रोक्तम् । आत्मेन्द्रियार्थसनिक ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् । सत्यप्यात्मेन्द्रियार्थानां सन्निकर्षे यस्य संयोगाद इन्द्रियेण ज्ञानस्य भाव उत्पत्तिः स्याद् यस्य वियोगादिन्द्रियेण ज्ञानस्याभावोऽनुत्पत्तिः स्यात्, तन्मन इति, आत्मेन्द्रियार्थसन्निकर्षसद्भावसमकाल. ज्ञानोत्पत्त्यनुत्पत्ती मनसो लक्षणमित्यर्थः। . नन्वेवं लिङ्गं मनः कथं द्रव्यं भवति, तनित्यमनित्यं वयत आह-तस्य द्रव्यखनित्यवे वायुना व्याख्याते। वायुर्यथा व्याख्यातः खल्याहङ्कारिकलाद द्रव्यवत्वेन द्रव्यं क्रियावत्त्वाद् गुणवत्त्वाच मूक्ष्मस्तथाहकारिकखान्मनोऽप्यद्रव्यवत्त्वेन क्रियागुणवत्त्वाच्च द्रव्यं मूक्ष्मञ्च व्याख्यातम् । एवं वायोर्यथा चाद्रव्यवत्त्वेन नित्यवं व्याख्यातं तथा मनसोऽप्यद्रव्यवत्त्वान्नित्यवं व्याख्यातमिति । गुणक्रियावत्समवायिकारणं द्रव्यमिति हुक्तं तद्र्व्यवदनित्यं तत्कायमिदं मनः । तद् द्रव्यरहिनवं नित्यत्वम्। क्रियागुणवत्समपायिकारणाभावानित्यं मन इत्यर्थः। अणुत्वं प्रसिद्धमाशुसञ्चारात्। ननु मनो द्रव्यं नित्यमणु च भवतु प्रतिक्षणं सात्त्विकादिविभिन्नरूपदर्शनात् किमेकैकस्मिन पुरुपेऽनेकमित्यत आह-प्रयत्नायोगपद्याज् ज्ञानायोगपद्याच्चैकम् । मन एकैकैस्मिन् पुरुष खल्वेकमेव भवति। कस्मात् ? प्रयत्नायौगपद्याज ज्ञानायौगपद्याच । ननु एक चेन्मनः स्यात् तथापि युगपदेव तस्य बहवः प्रयत्नाः सम्भवन्ति। यथाके एक एव सर्वं यदा प्रकाशयति तदैव तापयति तदैव जगतः स्नेहान् शोषयति । तथा किञ्चिद्वस्तु स्मरतु किञ्चिजानातु कचिन्मुह्यतु चेति। इत्यत आह-तदभावादणु मनः, तस्य मनसो विभुत्वेऽपि अणत्वं मूक्ष्मत्वं, कस्मात् ? तदभावात् । प्रयत्नशानयोः योगपद्याभावात् । यदि प्रयत्नयोगपद्य ज्ञानयोगपद्य वा प्रत्यक्षमज्ञायिष्यत तदा महन्मनोऽभविष्यत् इति ।०। कपिलेनाप्युक्तं सारसंहितायाम् । उभयात्मकञ्च मनः। बुद्धिकोभयात्मकमेकं मनः स्याद बुद्धीन्द्रियश्च कर्मेन्द्रियञ्चेति । तत्रायं संशयः। किं नु खलु मन एकमनेकं वेति ? तत्राह-गुणपरिणाम
For Private and Personal Use Only