SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७७० चरक-संहिता। कतिधापुरुषीयं शारीरम् स्थानं वक् खलु मनःपर्यन्तमेवास्ति। खगिति मनोमयकोषे हि मनो मनोऽभ्यन्तरे विज्ञानमयः कोषस्तत्र विज्ञानं तन्मध्ये खानन्दमय आत्मा क्षेत्राधिष्ठिताऽव्यक्ताख्यः। इति वात्स्यायनव्याख्या। . चरकवचनैकवाक्यखेनापरो व्याचष्टे। ज्ञानं ज्ञानोत्पत्तिरनुत्पत्तिानानुत्पत्तिद्वयमेतद् युगपदिति युगपज्ज्ञानस्याभावभावौ मनसो लिङ्गमिति । अस्मिन मूत्रे स्वयमक्षपादो मनसः परीक्षार्थ सूत्राण्युवाच। ज्ञानायोगपयादेकं मनः। न युगपदनेकक्रियोपलब्धेः। अलातचक्रदर्शनवत् तदुपलब्धिराशुसञ्चारात् । यथोक्तहेतुखाच्चाणु। इति । व्याख्यातानि च वात्स्यायनेन। अस्ति खलु ज्ञानायोगपद्यमेकेकस्येन्द्रियस्य यथाविषयं करणस्यैकप्रत्ययनितो सामर्थ्यान्न तदेकत्वे मनसो लिङ्गम् । यत् तु खल्विदमिन्द्रियान्तराणां विषयान्तरेषु शानायौगपद्यमिति तल्लिङ्गम् । कस्मात् ? सम्भवति खलु वै बहुषु मनःसु इन्द्रियमनःसंयोगयोगपद्यमिति ज्ञानयोगपद्यं स्यात्. न तद्भवति । तस्माद्विषयप्रत्ययपर्यायादेकं मन इति । तत्राह वादी - न युगपदनेकक्रियोपलब्धेरिति। अयं खल्बध्यापकोऽधीते प्रजति कमण्डलु धारयति पन्थानं पश्यति शृणोत्यरण्यजान शब्दान विभ्यद्ध्याललिङ्गानि बुभुत्सते स्मरति च गन्तव्यं स्थानीयमिति क्रमस्याज्ञानाद युगपदताः क्रिया इति प्राप्तं मनोवहुवमिति। तत्रोत्तरम्। अलातचक्रदर्शनवत् तदुपलब्धिगशुसञ्चारादिति । आशुसञ्चारादलातचक्रस्य सम्भ्रमतो विद्यमानक्रमो न गृह्यने । क्रमस्याग्रहणादविच्छेदबुद्धया चक्रवदबुद्धिर्भवति । तथा बुद्धीनां क्रियाणाञ्चाशत्तिखाद् विद्यमानक्रमो न गृह्यते, क्रमस्याग्रहणाद युगपत् क्रिया भवन्तीत्यभिमानो भवति। किं नु क्रमस्याग्रहणाद् युगपत् - क्रियाभिमानः ? किमथ युगपदभावादव युगपदनेकक्रियोपलब्धिरिति ? नात्र विशेषप्रतिपत्तेः कारणमुच्यते। इत्युक्तमिन्द्रियान्तगणां विषयान्तरेप पर्यायेण बुद्धयो भवन्तीति, तच्चाप्रत्याख्येयमात्मप्रत्यक्षखात्। अथापि दृष्टश्रुतार्थान चिन्तयतां क्रमेण बुद्धयो वतन्ते न युगपन्, अनेनानुमातव्यमिति। वर्णपदवाक्यबुद्धीनां तदर्थबुद्धीनाञ्चाशुत्तिवान् क्रमस्याग्रहणम् । कथम् ? वाक्यस्थेषु वर्णेषु खलुच्चार्यमाणेषु प्रतिवर्ण तावच्छ वर्ण भवति। श्रुतं वर्णमेकमनक वा पदभावेन स प्रतिसन्धत्ते, प्रतिसन्धाय पदं व्यवस्यति, पदव्यवसायेन स्मृखा पदार्थ प्रतिपद्यते, पदसमूहप्रतिसन्धानाच्च वाक्यं व्यवस्थति, सम्बन्धांश्च पदार्थान गृहीखा पाक्यार्थ प्रतिपद्यते, न चासां क्रमेण वर्तमानानां For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy