________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१७६६ शानानीति। इदश्च भाष्यं व्याचक्ष्महे। अतीन्द्रियाणि मनोबुद्धवादीनि । तन्निमित्ताः स्मृत्यादयः स्मृतिधृतिप्रभृतय उत्पद्यन्ते। तस्मात् मनोव्यतिरिक्तकरणान्तरबुद्धिनिमित्ता अपि सम्भवन्ति तस्मात् तत्रातिप्रसङ्गवारणाय युगपदिति लक्षणमिति। न हि युगपजज्ञानोत्पत्त्यनुत्पत्ति करणान्तरनिमित्तं सम्भवति, सम्भवति च मनस एवेति। कथमिति चेत् तद् दर्शयति-युगपत् चेत्यादि । चकारः पुनरर्थे । तेन घ्राणादीनां पश्चानामिन्द्रियाणां गन्धादीनाश्च पश्चानां तेषां ग्राह्याणामर्थानाञ्च युगपत् तु सन्निकर्षेषु सान्निध्येषु सत्सु अपि युगपदेककालं घ्राणजरासन चाक्षुषखाचश्रावणानि ज्ञानानि नात्पद्यन्ते, तेन युगपत्पञ्चवित्रज्ञानानुत्पादनानुमोयते। ततघ्राणादीन्द्रियसंयोगि तत्तदिन्द्रियाणां स्वस्वाथेग्रहणे स्वस्वायं प्रतिधावने च सहकारि किमपि नियन्तृ वस्तु खल्वेकमण च सर्बेन्द्रियव्यापकस्पर्शनन्द्रियसमवेतत्वेन व्यापकमपि युगपत् पश्चस्वव्यापकं निमित्तान्तरमस्तीति खनुमीयत इत्यन्वयः। कथमनुनीयत इत्यत आह-यस्येत्यादि । यस्य निमित्तान्तरस्यासन्निधानात् तत्तदिन्द्रियार्थसन्निकर्षऽपि सति तत्तदिन्द्रियजं तत्तदर्थज्ञानं नोत्पद्यते। यस्यैव निमित्तान्तरस्य सन्निधानात् तु तत्तदिन्द्रियार्थसन्निकर्षे च सति तत्तदिन्द्रिय तदर्थशानमुत्पद्यते। तदेवकमणपरिमाणञ्च तदिन्द्रियसंयोगि सहकारि नियन्तु चाव्यापि च निमित्तान्तरं मन एवोच्यते । कस्मादेवमित्यतो हे दशति - मनःसंयोगेत्यादि। यदि तु तथाविधं तदिन्द्रियसंयोगि मनो नावत्तियत मनःसंयोगानपेक्षमेवेन्द्रियमग्रहीष्यदर्थ ग्रहीतुञ्चाविष्यदिति तदिन्द्रियार्थसन्निकर्षों मनःसंयोगानपेक्ष एव तत्तदर्थशानमजनयिष्यदिति ज्ञानस्य हेतुः तत्तदिन्द्रियसन्निको न मनःसंयोगापेक्ष इति चेत् तदा युगपदुत्पदारन् ज्ञानानि पञ्चेति। तस्मात् तदिन्द्रियसंयोगिसहकारिनिमित्तान्तरं तत्तदिन्द्रियाणां तत्तदर्थे धावनग्रहणयोनियन्तप्रेरकमणपरिमाणमेकमेवासव्र्वव्यापि सव्वत्रगामि मनोऽस्तीत्यनुमीयते । तस्य खलु मनस एकखाणखाभ्यां युगपदनकेप गन्तुमसामादव्यापिखात् इन्द्रियाणां युगपदर्थष धावनग्रहणे च सहकारितया संयोगिप्रयोजकाभावान्न युगपदिन्द्रियाणां सन्निधाने सत्स्वप्यथष धावनाथ ग्रहणाथेञ्च प्रवृत्तिभवति। तस्मान्न युगपज्ज्ञानोत्पत्तिर्भवतीति ज्ञानयोगपद्यानुत्पत्तिमनसो लिङ्गं भवति । नैवं बुद्धमा सम्भवति निष्क्रियखात् तदिन्द्रियसंयोगाय गन्तुमसामर्थ्यात्। न चात्मतश्चैवं भवति मनःक्रिययोपचारतक्रियया स्पर्शने. न्द्रियं गन्तुमात्मनोऽसम्भवात् । यत्र ह्यात्मा वर्तते तत्र तु नास्ति स्पर्शनेन्द्रिय
For Private and Personal Use Only