________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। कतिधापुरुषीयं शारीरम् ननु द्रव्यगुणकम्मसमवायसामान्यविशेषा इति पड़ेव पदार्था उक्ताः, के पुनः पदार्था महदहङ्काराहकारिकदशेन्द्रियाणीति चन् ? सत्यम् । द्रव्यादयस्तु ये पर पदार्था उक्ताः, न ते षड़ेव पदार्थाः न बन्ये पदार्थाः सन्तीत्येवं नियमेनोक्ताः, तज्ज्ञासा तन्त्रोक्तविधिमाश्रिता इत्येतन्मात्रमुक्तं शास्त्रोक्तलोकिकविध्याश्रयणं तत्पदपदार्थशानन भवतीति च ख्यापितम् । वैशेषिके कणादन च तत्षट्पदार्थतत्त्वज्ञानान्निःश्रेयसमुक्तमन्य पदार्था न सन्तीति नोक्तम्। निःश्रेयसवचननाप्रमेयपदार्थाः सन्तीति शापितम्। गोतमेनाक्षपादनापि प्रमाणादिषोड़शपदार्थतत्त्वज्ञानात् निःश्रेयसाधिगमवचनन अप्रमेयपदार्थाश्च सन्तात्यतज्शापितं, न तु प्रमाणादिभ्योऽभ्य पदार्था न सन्तीत्युक्तमत एवं कपिलेन साय चोक्तं न षट्पदार्थनियमस्तबोधाच्च मुक्तिः। षोड़शादिष्वप्येवम् । न वयं वैशेषिकादिवत् षट्पदार्थवादिन इत्यवमुक्तमिति प्रमेयातिरिक्ता अप्रमेयपदार्था अपि सन्ताति तत्त्वम् । ननु तहि किं महदादिकमप्रमेयमिति चन्न। षट्सु यन्नवद्रव्यमुक्तं तत्कारणभूतम्, कारणभूतद्रव्यग्रहणेन काय्यभूतस्यापि देहेन्द्रिय विषयात्मकादग्रहणम्. तत्रागा कारणभूतः काय्यभूतश्च। कारणभूतमव्यक्तमात्मा, काय्यभूतः मूक्ष्मदहो। तत्राव्यक्तं सूक्ष्मदहनः परम इति परात्मा ततः प्रत्यगात्मा सूक्ष्मदहो तद्ग्रहणेन महदादीनां ग्रहणात् प्रमेयत्वं न खप्रमेयत्वमुक्तम् । अव्यक्तात् परमस्वात्मपटकः परमव्योम पुरुषः सवपरमात्मा। तथा चाक्तं कठोपनिषदि। इन्द्रियभ्यः परा ह्या अथभ्यश्च परं मनः । मनसश्च परा बुद्धिबुद्धरात्मा महान् परः। महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न पर किञ्चित् सा काष्ठा सा परा गतिरिनि। मनस्तु गातमेनाप्युक्तम्। युगपन् ज्ञानानतपत्तिः मनसो लिङ्गमिति। व्याख्यानञ्च वात्स्यायनन। मनसः स्मृत्यादिषु लिङ्गः सत्सु खल्विदं युगपज्ञानानुत्पत्तिलिङ्गं भवति। अतीन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरांनमित्ता भवितुमर्हन्ताति। युगपच्च खल घ्राणादीनामिन्द्रियाणां गन्धादीनाञ्चार्थानामात्मनश्च सनिकर्षेषु सत्सु युगपज ज्ञानानि नोत्पद्यन्ते। तेनानुमीयते, अस्ति तदिन्द्रियसंयोगिसहकारिनिमित्तान्तरमव्यापि। यस्यासन्निधे!त्पद्यते ज्ञानं, सनिधश्चोत्पद्यत इति । मनःसंयोगानपेक्षस्य होन्द्रियार्थसन्निकर्षस्य शानहेतुत्वे युगपदुत्पदेवरन् स्वरूपा अध्यवसायरूपेत्यर्थः । व्यवस्थतीत्यनुष्टानं करोति उद्युक्तो भवतीत्यर्थः, बुद्धपध्यवसितमर्थ वक्तु कत्तुं वाऽनुतिष्टतीति यावत् । बुद्धिपूर्वकमित्यनेन, यदेव बुद्धिपूर्वकमनुष्ठानम्, तवैवंविधं भवति, नोन्मत्तारानुष्टानमिति दर्शयति ॥ ५ ॥
For Private and Personal Use Only