SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः शारीरस्थानम् । १७६७ व्यवसायात्मिका प्रमाणमुच्यते। इत्येव ज्ञानस्य भाव एतद्विपथ्य येण ज्ञानस्य अभाव एव च मनसो लक्षणं तेनानुमेयं मन एकम् । ननु येयं बुद्विरात्मेन्द्रियार्थ. मनःसनिकषादुत्पद्यते सा किमुपादाना मनश्चेदं किमुपादानमिति चेत् सत्यम् । योऽसौ पड़ धातुः पुरुष उक्तः स खल्वेवमुक्तः। यदव्यक्तं नामात्मा महान् नाम जीवश्चाहङ्कारश्च तत् सात्त्विकाइबाराद्वैकारिकाभिधानाजातं मनस्तैजसाख्यराजसाहङ्कारसहायात् सात्त्विकाच्याहङ्काराजातानि दशेन्द्रियाणि भूतादिनामतामसाहकारजानि शब्दतन्मात्राकाश-स्पर्शतन्मात्रवायु-रूपतन्मात्रतेजो-रसतन्मात्रजल-गन्धतन्मात्रभूमय इत्येतानि महाभूतानि पञ्चेत्येतदहङ्कारादिसप्तदशक महांश्चेत्यष्टादशतत्त्वविशिष्टोऽव्यक्ताख्य आत्मा चेतनाधातुस्तत्र च दिक्कालाभ्यां विशिष्ट आकाशस्तदाकाशानुप्रविष्टवायुर्वाय्वनुमविष्टतेजस्तत्तेजोऽनुप्रविष्टजलं तजलानुपविष्टभूमिरिति खादयः पञ्च चेति पड़ धातवः, एकीभूतः पड़ यातुः पुरुषः प्रत्यगात्मा भूतात्मा चोच्यते । मूक्ष्मदेही वीजधर्मा स एव परलोकादवक्रम्य गभाशयगतं शुक्रशोणितसंयोगं प्राप्याव्यक्तात् आत्मनः सत्त्वादिगुणान् विकुणि आत्मान्तरं सजतीत्यव्यक्तमात्मात्मान्तरमारभते। तथा महान स्वगतसत्त्वादीन विकुर्वाणो निश्चयात्मिकां बुद्धिमारभते । अहङ्कारश्च स्वगतसत्त्वादीन विकुर्वाणोऽविद्याधुद्धियारभते। आकाशादयश्च पश्च पञ्चाकाशादीनारभन्ते। इत्यष्टप्रकृतिधातुभ्योऽष्टो जायन्ते। तथा मनः स्वारम्भकसत्त्वादीन गुणान् विकुाणं विशिष्टमपरं सत्त्वगुणबहुलत्रिगुणं सत्त्वसंज्ञकं मन आरभते। आहङ्कारिकाणि पञ्च बुद्धीन्द्रियाणि तान्यात्मकुना कैकाधिकपञ्चभूतान्यनुप्रविश्य पञ्च श्रोत्रादीनि बुद्धीन्द्रियाण्यारभन्ते । तानि पञ्च कम्मे न्द्रियाणि चात्मकृतानि पञ्चाकाशादीन्यनुप्रविश्य पञ्च कर्मेन्द्रियाणि हस्तादीन्यारभन्ते । पञ्चार्थाश्च शब्दादयः शब्दादीनारभन्ते । इत्येवं चतुविंशत्या धातुभिनिष्पन्नः पुरुषोऽन्नमयो देवनरादियोनिषु जायत इति। तदिदं मनःप्रकृतिकं मनो ह्यभौतिक चिन्त्याद्यनियतविषयं भौतिकानीन्द्रियाणि शब्दादिनियतविषयाणि । हस्तपादादिशरीरञ्च भौतिकमिति दशेन्द्रियाणि शरीरञ्च खादिषु पञ्चमु द्रव्येषु संगृहीतानि तत् सेन्द्रिय शरीरं शरीरमुक्तं मनस्तु पृथक् द्रव्यमुक्तं सूक्ष्मदेही खात्मा द्रव्यमुक्तमिति सत्त्वमात्मा शरीरञ्चेति त्रयं संयुक्तं पुरुषश्चतुविंशतिक उक्तः क्रियाधिकरणश्च इति। विवृणोति--जायत इत्यादि । विषये तोति मनसा कल्पिते विषये। निश्चयात्मिकेति स्थिर. For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy