________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकाता
१७६६
चरक-संहिता। कतिधापुरुषीयं शारीरम् इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते । कल्प्यते मनसाप्यूई गुणतो दोषतो यथा ॥ जायने विषये तत्र या बुद्धिर्लियात्मिका ।
व्यवस्यते तया वक्तु कत्तुं वा बुद्धिपूर्वकम् ॥५॥ ततोऽथ गृहीखा खस्य तदर्थग्रहणान्नित्तिर्निग्रहः कर्म। ततोऽनन्तरमात्मना कृतो मनसैवोह इदमिदं वाऽथ नेदं वा भवतीत्येवं वितर्कः। ततोऽनन्तरं तदर्थस्य विचारः। यदावं स्यात् तदेदं स्यान्नेदमेवम्, यत इदमेवं तत इदन्विदमित्येवं विचारात् परं बुद्धिः प्रवत्ततेऽयं खलु घट इति। कथमिन्द्रियाभिग्रहः स्यादित्यत आह-इन्द्रियेणेत्यादि। हि यस्मात् समनस्केनात्मप्रेरितमनसा सहैवेन्द्रियेण तदिन्द्रियार्थी गृह्यतेऽतः स इन्द्रियाभिग्रहः न तु मनोऽनपेक्षेण। अद्ध तदर्थग्रहादृद्ध ततो नित्य स एवार्थो गुणतो दोषतो वा यत् कल्प्यते उहपूर्वक विचारः क्रियते। इदमेवमिदं ग्राह्यमिदं नैवमतो हेयमिदञ्चैव मित्यत उपेक्ष्यमित्येवं कल्पयित्सा विचार्यानन्तरं यो निश्चयः स्यादिदं ग्राह्यमिदं हेयमिदमुपेक्ष्यमित्येवं निश्चयलक्षणा या बुद्धिर्जायते सा निश्चयात्मिका बुद्धिरुच्यते। येयं तत्र विषये निश्चयात्मिका बुद्धिर्जायते, तया बुद्धया वक्तु वा कत्तुं वा यद् व्यवस्यते गृह्यते वा त्यज्यते वाप्युपेक्ष्यते वा तद बुद्धिपूर्वकं व्यवस्यते इति निश्चयात्मकबुद्धिपूर्वकव्यवसायकरणबुद्धिः निश्चयबुद्धेः फलं प्रमाबुद्धिस्तदव्यवसायकरणबुद्धिलक्षणं यस्याः सा बुद्धिः त्रितयम् । तन्द्रियाण्यालोचयन्ति निर्विकल्पेन गृह्णन्तीत्यर्थः, मनस्तु सङ्कल्पयति हेयोपादेयतया सङ्कल्पयतीत्यर्थः, अहङ्कारोऽभिमन्यते ‘ममेदमहमत्राधिकृतः' इति मन्यत इत्यर्थः, बुद्धिः अध्यवस्यति त्यजाम्येनं दोपवन्तमुपाददाम्येनं गुणवन्तमित्यध्यवसायं करोतीत्यर्थः। उहस्तु यद्यपि वाह्यचक्षुरादिकर्म, तथापि मनोऽधिष्ठानमस्तीति मनःकर्मतयोक्तः। वचनं हि "सान्तःकरणा बुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि" ॥ इति। ततः परं बुद्धिः प्रवर्तत इति ऊहविचारानन्तरं बुद्धिरध्यवसायं करोतीत्यर्थः। अहङ्कारव्यापारश्च अभिमननमिहानुक्तोऽपि बुद्विव्यापारेणैव सूचितो ज्ञेयः। बुद्धिहि त्यजाम्येनमुपाददामीति वाध्यवसायं कुर्वती अहङ्काराभिमत एय विषये भवति । तेन बुद्धिव्यापारेणैव अहङ्कारव्यापारी गृह्यते। बुद्धौ हि सर्वकरणव्यापारार्पणं भवति। यदुक्तम् -- "एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः। कृत्स्नं पुरुषार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति ॥"
एतदेवोहविचारपूर्वकत्वं बुद्रेविवृणोति- इन्द्रियेणेत्यादि। गृह्यते इति ऊहमात्रण निविन गृह ते। नत इ.सु.८१६.८.२.या, दोपत इति हेर.तया। दुइयायसायं
For Private and Personal Use Only