________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१मध्यायः
शारीरस्थानम् ।
१७६५ चिन्त्यं विचार्यमूह्यञ्च ध्येयं सङ्कल्प्यमेव च । यत्किञ्चिन्मनसो ज्ञयं तत् सव्वं ह्यर्थसंज्ञकम् ॥ इन्द्रियाभिग्रहः कर्म मनसस्त्वस्य छ निग्रहः ।
ऊहो विचारश्च ततः परं बुद्धिः प्रवर्त्तते ॥ युगपद् भवन्ति । नन्वात्मा शब्दादीन् पञ्चैवार्थान् न चेल्लिप्सति, तर्हि मनस इन्द्रियेषु प्रवृत्त्यभावाज ज्ञानं किं न प्रवर्तत इत्यत आह-चिन्त्यमित्यादि । चिन्तया यज् ज्ञायते तच्चिन्त्यम् । विचाय्यं विचारेण विविधतर्कण यज् ज्ञायते तद्विचार्य वितर्यम् । अहेन तर्केण यज् ज्ञायते तदृह्यतर्यम्। ध्येयमर्थेभ्यो वहिरिन्द्रियाणि निवत्त्ये मनो यच्चिन्तयति तत् ध्येयं ध्यानीयं। चिन्त्यन्तु सेन्द्रियेण मनसा ध्येयम्। सङ्कल्प्यं मनो यत् सम्यक् कल्पयति विचारेण तत् सङ्कल्प्यम् । एवमन्यत् यत्किञ्चिदिन्द्रियानपेक्षं मनसो शयं सुखदुःखेच्छाद्वषप्रयत्नशानचेतनाधृतिस्मृत्यहङ्कारभिन्नं तत् सर्च मनसोऽर्थसंक्षक न तु केवलमर्थसंक्षकमिति शब्दादीनां तत्संज्ञवात्। ननु च कथं मनसोत्पद्यते शानमित्यत आह-इन्द्रियाभिग्रह इत्यादि। इन्द्रियाभिग्रह इन्द्रियमभिमुखीभूय तदिन्द्रियग्रहणम् आत्मना बुद्धप्राध्यवसितमभीप्सितमर्थ ग्राहयितु प्रेरितस्य मनसस्तदर्थग्राहकमिन्द्रियमभिसुखीभूय यद ग्रहणं तदिन्द्रियस्य तदेकं मनसः कर्म ।
मनोगुणमभिधाय मनांविषयमाह - चिन्त्यमित्यादि। चिन्त्यं कर्त्तव्यतया अकर्त्तव्यसया यन्मनसा चिन्त्यते। विचार्यमुपपत्त्यनुपपत्तिभ्यां यद् विमृश्यते। जह्यञ्च यत् सम्भावनया ऊह्मते 'एवमेतद् भवति' इति । ध्येयं भावनाज्ञानविषयम् । सङ्करुष्यं गुणवत्तया दोषवत्तया वावधारणविषयम्। यत्किञ्चिदित्यनेन सुखायनुक्तविषयावरोधः। मनसो ज्ञेयमिति इन्द्रियनिरपेक्षमनोग्राह्यम् । एते च मनोऽर्थाः शब्दादिरूपा एव । तेन षष्टार्थकल्प. नया न चतुर्विशतिसंख्यातिरेकः, सुखादयस्तु शब्दादिव्यतिरिक्ता मनोऽर्था बुद्धिभेदग्रहणेनैव ग्राह्याः। मनोविषयमभिधाग मनःकर्माह-इन्द्रियेत्यादि। इन्द्रियाभिग्रह इन्द्रियाधिष्ठानं मनसः कर्म, तथा स्वस्य निग्रहो मनसः कर्म। मनो ह्यनिष्टविषयप्रसृतं मनसैव मियाम्यते । मनश्च गुणान्तरयुक्तं सद् विषयान्तरान्नियमयतीत्याहुरेके। यदुतम्- "विषयप्रवणं चित्तं एति. भ्रंशान शक्यते । निगन्तुमहितादाद तिहि नियमात्मिका ॥” इति । तेन पृत्या कारणमूतया मन आत्मानं नियमयतीति न स्वात्मनि क्रियाविरोधः। मनःकर्मान्तरमाह-अहो विधारश्चेति । अग्रोह आलोचनज्ञानं निर्विकल्पम्, विचारः सङ्कल्पनं हेयोपादेयतया विकल्पनम् । चतुर्विधं हि विकल्पकारणं सांख्या मन्यन्ते। तत्र वाह्यमिन्द्रियरूपम्, आभ्यन्तरन्तु मनोऽहक्कारो बुद्धिश्चेति
- मनसः स्वस्येति चक्रः।
For Private and Personal Use Only