SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२३६ चरक-संहिता। : ज्वरनिदानम् तत्र प्रथमत एव तावदाद्यान् लोभातिद्रोहकोपप्रभवानष्टौ व्याधीन निदानपूर्वेण क्रमेणानु व्याख्यास्यामः। तथा सूत्रसंग्रहमात्र चिकित्सायाः, चिकित्सिते चोत्तरकालं यथोदिष्टं गङ्गाधरः--ननु सर्वान्नेव व्याधीन् किं भूयस्तरेण निदानस्थाने व्याख्यास्यसीति ? अत आह-तत्रेत्यादि । तत्र निदानादिपञ्चानामर्थस्य भूयस्तरखेनानुव्याख्यातव्यखे प्रथमत एव निदानस्थान एवाष्टौ व्याधीन निदानपूर्वेण द्रव्यगुणकर्मरूपसमवायिकारणोपदेशपूर्वकेण क्रमेण पूर्वरूपाप्रप. देशेनानु अत ऊई व्याख्यास्यामः । तथा चिकित्सायाः सूत्रसंग्रहमात्रमनु व्याख्यास्यामः। ननु कुतोऽष्टी व्याधीन व्याख्यास्यसीत्यत आह–तावदाद्यानित्यादि । तावदाद्यान् तावतां व्याधीनां मध्ये पूज्वेतनत्वेनोदभूतान्। नन्वष्टानां व्याधीनामाद्यत्वं योगपदेवनोत्पत्तिं विना न सम्भवति इत्यत आह-लोभेत्यादि। लोभातिद्रोहकोपाणां परमाणुकालेऽपि योगपद्याभावात दिनाहोरात्रपक्षमासत्तु रूपस्थूलकालेन योगपद्यसम्भवाद् दिनादिकालेन युगपदुत्पन्नत्वं ख्यापितम् । तेन दक्षाध्वरध्वंसे ज्वरोत्पत्त्यनन्तरं रक्तपित्तादुत्पत्तिाख्यास्यमाना संगछते।। अथ निदानपूवक्रमेण व्याख्याने कर्तव्ये उपशयस्यापि भूयस्तरत्वेन व्याख्याने प्राप्ते मूत्रसंग्रहेण व्याख्यानमिह कार्यमिति ज्ञापनाथमाहसूत्रसंग्रहमात्रं चिकित्साया इति। प्रतिरोगमुपशयन्तु न भूयस्तरमत्र चक्कपाणिः-तत्रेत्यादि। ज्वराद्यष्टविधरोगस्य निदानस्थाने कथनं प्रतिजानीते ; “प्रथमत एव तावद्' इत्यनेन पश्चाञ्चिकित्साभिधेयानप्रभृतीन् सूचयति । "आद्याल" इत्यनेन आदौ दक्षाध्वरोद्ध से उत्पन्ना ये, तेषामिह कथनं दर्शयति । यद्यपि च राजयक्ष्मा पृथगेवोत्पन्नः, वचनं हि-"अतिव्यवायात् पुनर्नक्षत्रराजस्य यक्ष्मा" ; तथाप्यस्य प्राधान्यादिहाभिधानम् ; यद्यपि च दक्षाध्वरोद्ध सो तानपस्मारान्तानभिधाय पृथगुत्पन्नस्य यक्ष्मणोऽभिधानमुचितम्, तथाप्युन्मादापस्मारयोरागन्तुत्वेन शोपमप्यभिधायान्तेऽभिधानम्। “लोभाभिद्रोहप्रभवान्” इत्यनेन जनपदोदध्वंसनीये "प्रागपि चाधाहते न रोगोत्पत्तिरभूद" इत्यनेन वक्ष्यमाणानां ज्वरादौनां लोभाभिदोहजन्यतां दर्शयति ; अनेनाधर्मजत्वं ज्वरादीनामुक्त भवति। निदानपूर्वति निदानप्रथमेन। क्रमेणेति रोगसामान्योक्तनिदानपूर्वरूपरूपोपशयसम्प्राप्तिरूपेण ; अयञ्च क्रमः * अभिद्रोहेति पाठान्तरम् । + उत्तरकालं यथोपचितविकाराननुव्याख्यास्याम इति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy