________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मि अध्यायः । निदानस्थानम् ।
१२३५ देखादिभिर्निदानादिभिरुक्तलक्षणलक्षितैर्भावैः स्वस्वाधिकारोक्तयथावद् यथाविधि अनुमानाडाक्तविधानेनानुबुध्येत उपदेशेन शातान् पश्चात् बुध्येत । उपसंहरति-इत्यर्थेत्यादि। इति निदानादिपञ्चकरूपस्यार्थस्य संग्रहो निदानस्थानस्य उद्दिष्टः संक्षेपेणोपदिष्टो भवति। अत्र निदानशब्देन हेखादीनि पञ्च गृह्यन्ते ; निदीयते प्रतिपद्यते व्याधिरनेनेति व्युत्पत्तेः। ननु निदानादिपञ्चानामेवमस्तु स्वरूपं तेन कथं ज्वरादिरुपलभ्यते इत्याकाङ्क्षायामाह-तमित्यादि। तमुदिष्टं निदानस्थानस्यार्थसंग्रहं निदानादिपञ्चकमर्थ विस्तरेण प्रतिरोगमुपदिशन्तो वयं भूयस्तरं प्रतिरोग निदानादिप्रत्येकेन भूयिष्ठातिशयमनु निदानस्थाने चिकित्सास्थाने च व्याख्यास्यामः ॥७॥ इति ; तथा, लिङ्गनिश्चितेऽपि व्याधौ पूर्वरूपेणासाध्यत्वमुक्तम् ; यथा--- "पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया। यं विशान्त विशत्येनं मृत्युज़रपुरःसरः” इति ; तस्मानिदानादिपञ्चकमभिधातव्यमेव। ननु लिङ्गेन व्याधिः परीक्षणीय इति वचनाल्लिङ्गव्यतिरिक्तो व्याधिः इत्युक्त भवति ; तत्र च लिङ्गसमुदायव्यतिरिक्तो न व्याधिरुपलभ्यते ; विषमारम्भविसर्गित्वादयो हि सन्तापसहिता बराः, तथा प्रतिश्यायकासादेवकादशरूपमेलक एव यक्ष्मा ; नैवम्, लिङ्गत्वेन शास्त्रे प्रतिपादितानां तदतिरिक्तव्याध्यभावे लिङ्गत्वानुपपत्तेः ; वचनं हि-"विषमारम्भमूलादैववर एको निरुच्यते"; विकारश्चेह दोषदृष्यमेलकविशेपो ज्वरादिशब्देनोच्यते; सच दोपदूष्यविशेषात्मा ज्वरोऽरुच्यादिभ्यो दोषदृष्यवैषम्यविशेषेभ्योऽर्थान्तरमेव ; न च वाच्यम्,ज्वरलिङ्गारुच्यङ्गमर्दादिरूपधातुवैषम्यविशेषमेलको स्वरोऽस्तु, अलं तदतिरिक्तज्वरकल्पनया; लिङ्गलिङ्गिभावश्च समुदायसमुदायिभेदात् भविष्यतीति ; यत:, एवमप्यरुच्यङ्गमर्दादिधातुवैषम्यानुगतो धातुवैषम्यविशेषो ज्वररूपोऽवयवीति भिन्न एवं वक्तव्यः ; जवाबाहुशिरोऽन्तराध्यवयवानतिरिक्तमेव शरीरमवयविरूपम्। न च दुःखमेव व्याधिरिति पूर्वमेव पराकृतम् ; तेन दुःखरूपत्वाद व्याधेरवयवित्वं न सम्भवतीति न वाच्यम् ; लिङ्गानि तु स्वरूपेण व्याधयो भवन्ति, ते च बोद्धव्यव्याध्यपेक्षया लिङ्गं भवति ; तदुक्तम् “व्याधयस्ते तदात्वे तु लिङ्गानीशानि नामयाः' इति ; लिङ्गलिङ्गिभावश्च जिज्ञासावशाद् भवति । यद् वक्ष्यति-"विपमारम्भमूलानां ज्वर एको हि लक्षणम्। विषमारम्भमूलैश्च ज्वर एको निरुच्यते ॥' अस्य चार्थमपस्मारनिदाने प्रकरणागतं व्याख्यास्यामः ; तस्मात् सुस्थितं व्याधिगमकत्वं निदानादिपञ्चकस्येत्यर्थः।
इतीत्यादौ इति परिसमाप्तौ। निदानस्थानस्येति सर्वव्याधिनिदानस्य। अर्थसंग्रह इत्यनेनैव संक्षेपार्थाभिधाने लब्धे, “उद्दिष्टः' इति संक्षेपाभिधायिपदकरणेन संक्षेपस्यापि संक्षेपाभिधानमेतदिति दर्शयति , तमिति सामान्यनिदानोद्देशम् ; अतो निदानोद्देशमात्रतो भूयस्तरमुपदिशन्तो विस्तरेण व्याख्यास्याम इति योजना ; तेनैतदतिसंक्षेपकथनापेक्षया प्रपञ्चकथनमेवेह विस्तरशब्दार्थ इति दर्शयति ; तेन निदानादीनां यावद विस्तरकथनमुत्तरत्रोपपन्न भवति ॥७॥
For Private and Personal Use Only