________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२३४ चरक-संहिता।
ज्वनिदानम् तस्माद्वाधीन् भिषगनुपहतसत्त्वबुद्धिर्हेत्वादिभिर्भावर्यथावदनुबुध्येत। इत्यर्थसंग्रहो निदानस्थानस्योदिष्टो भवति, तं विस्तरेणोपदिशन्तो भूयस्तरतमतोऽनुव्याख्यास्यामः॥७॥ यथा दुष्टेन दोपेण यथा चानुविसर्पता । नित्तिरामयस्यासौ सम्प्राप्तिर्जाति रागतिः इति। अत्रामयस्येति ज्वरवादिरूपेण दोषस्य दोषात्मकखाच्छारीर. व्याधीनामिदन्तु लक्षणं निजमानसव्याध्यभिप्रायेण बोध्यम्, अन्यथागन्तुव्याधिसम्प्राप्तौ तस्याव्याप्तिः दोषदुष्टाभावात् । चरकाचार्यस्तु सव्र्वसम्प्राप्ति व्यापकलाभिप्रायेण सम्पाप्तिः आगतिर्जातिरित्यनान्तरं व्याधेरिति लक्षणमुक्तवान् ; इत्थश्च ज्वरादिषु रससंयोगामाशयगमनजाठराग्निवहिष्करणादिशाने पाचनलङ्घनस्वेदनादिक्रियाविशेषोऽपि लभ्यते इति यदन्यैः फलात्मकजन्मनश्चिकित्सायामुपयोगिलमुक्तं तन्न युक्तम्, आमाशयगमनरसदृषणवह्निवहिष्करणादिको हि प्रकारो विधिर्वापार एव ज्वरखादिरूपेणाभिव्यक्ती दोषाणामिति तत्समवायिकारण-समवायात्मकफलं विना कि व्यापारः सम्भवति ? निष्फला हि क्रिया नास्ति । तस्मात् फलरूपं जन्म सत्ता व्याधीनामसत्तायां कस्य चिकित्सा स्यात् ? तस्माद् व्याधिजन्मनः सत्ता. रूपस्य सर्वथैव चिकित्सायामुपयोगिसमिति निष्कर्षः ॥६॥
गङ्गाधरः-नन्वेभिर्निदानादिभिः किं कः कुर्यादिति ? अत आह-तस्मादित्यादि। यस्मात् तत्र निदानं कारणमित्यादिग्रन्थेन विवरीतनिदानपूर्वरूपलिङ्गोपशयसम्माप्तितस्तस्योपलब्धिस्तस्मात् व्याधीननुपहतसत्वबुद्धिभिषक् सामान्याभिधानेनैवोक्तस्वात् सम्प्राप्ति परित्यज्य निदानादिविशेषाभिधानम्, तत् प्रतिजानीते "तस्य निदानपूर्वरूपलिङ्गोपशयविशेषाननुव्याख्यास्यामः" इति ॥ ६॥
चक्रपाणिः-यस्मादिमे निदानादय उक्तन न्यायेन परीक्षायामुपयुक्ताः, तस्माद् व्याधीन् भिषग हेत्वादिभिः परीक्षेतेति योजना ; न च वाच्यम् -- यन्निदानादीनां मध्ये चेदन्यतमेनापि च्याधि परिच्छेत्तु समर्थस्तत् कथं पञ्चकाभिधानेनेति ; यतः यावन्तो ज्ञानोपाया व्याधीनाम्, ते सर्व एवोपदर्शनीयाः ; तत्र यो निदानं विस्मृतवान्, तस्य पूर्वरूपादिभिर्व्याधिः परीक्ष्यते ; तथा यत्र च पूर्वरूपादयो विस्मृताः सन्दिग्धा वा, तत्रोपशयेन परीक्षा भवति ; एवं कफजत्वसन्देहे ज्वरस्य सम्प्राप्तिरपि पूर्वाह्न भुक्तमात्रे वा भवतीति कफजत्वं गमयतीत्यादि प्रयोजनमनुसरणीयम् ; तथा पूर्वरूपेणापि लिङ्गसामान्यनिश्चय उक्तः ; यदुक्तम् -- "हारिद्रवर्ण रुधिरञ्च मनं विना प्रमेहस्य हि पूर्वरूपैः। यो मूत्रयेत् तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः ॥"
For Private and Personal Use Only