________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
निदानस्थानम्।
१२३३ भावानां नित्यगवस्वभावादुपादानसातत्याचारम्भकहतवः प्राग्यथाभूतत्वं प्रकृतिस्थं विकृतिस्थं वा तथाभूतत्वेनोत्तरावस्थां यथोपादानमारभमाणाः पागवस्थाभङ्गं कुर्वन्तीति प्रतिक्षणमवस्थान्तरगमनमपि जन्मोच्यते, तच्च स्वा स्खा जातिः सम्पातिरागतिरित्यनान्तरखात्। ततः पुरुषस्य बाल्ययौवनमध्यमस्थाविर्यवद्याधीनामुत्तरकालं वृद्धिहासादिकं यथोपादानं भवति । तत्रापि प्रागवस्थायां भविष्यदुत्पत्तिरुत्तरावस्थारम्भपूर्वकप्रागवस्थाभङ्गो वत्तमानोत्पत्तिस्तत्समाप्तो खतीतोत्पत्तिरित्येवमुत्पत्तिर्जातिः स्वा स्वा सम्प्राप्तिस्त्रिकाला। ___ आगन्तुव्याधीनामपि प्रागेव कारणतो जायमानानामन्तरेणादोपसम्बन्धं धातुवैषम्ये जाते तद्विषमधातुव्यापारेण तथैव सत्ता निष्पद्यते। इति सम्प्राप्तिर्जातिरित्यस्य नाप्रसङ्गः। यस्तु यथा दुष्ट न दोषेण यथा चानुविसर्पता । नित्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिरिति व्याचष्ट तदसाधु, दोपसम्बन्धाभावादागन्तुषु। तस्माजन्मापि ज्ञानकारणं भविष्यदुत्पत्तिमान् भावः पूर्वरूपेण ज्ञायते । वत्तेमानोत्पत्तिमांस्तु सम्प्राप्तिकालिकतत्तल्लक्षणेन। अतीतोत्पत्तिमांस्तु वर्तमानो भावो व्यक्तलक्षणेन। यस्यैवं त्रैकालिकोत्पत्तिर्नास्ति तन्नास्ति न च ज्ञायते। सर्गावस्थायां परं ब्रह्म चावस्थान्तरमासाद्य गायत्री वभूवेति तत सर्व यजःपुरुषीये दर्शितमिति । तस्माजन्मापि भावानां प्रत्यक्षादिज्ञानहेतुनिदानादिवबोधकमेव न तु रूपादिवद्विषयत्वेन, विषयो हि घटादिवदाकृतिसमुदायो वातादिज्वरादिस्तेन च कपालादीनामिव वेपथ्वादीनामाकृतीनां स्वशाने विषयले सिद्धे समुदायस्य झाने लिङ्गखेनानुमित्यादिषु हेतुखात यावत्समवायिसमवायस्तु सत्ताजातिः सामान्यविशेषरूपासामान्यविशेषाकृतिभ्यामनुमीयते इति ।
यत् तु फलविशिष्टव्यापारात्मक व्याधेजन्म सम्प्राप्तिरित्यभिप्रायेणोक्तंबलवव्याधिजनिका सम्प्राप्तिाधेर्विशेष स्फुटमेव बोधयति ; यतः पूर्वाह्लादिबलसम्प्राप्तया ज्वरस्य कफादिजत्वमुन्नीयते इति ; इह च सम्प्राप्तेरेव विशेषाः संख्यादिकृता उक्ताः, न तु निदानादीनां विशेषाः ; यतः, निदानादिविशेषाः प्रतिव्याधि वक्ष्यमाणभेदेनैवोपयुक्ताः ; यतः, यादृग् ज्वरे निदानम्, न तादृग् रक्तपित्ते , ये च पूर्वरूपादिविशेषाः ज्वरे, न ते रक्तपित्तादौ, भिन्नजातीया एव , स च भेदो निदानादीनां भेदगमकत्वेनोपयुक्तो व्याधिभेदकथन एव , सम्प्राप्तेस्तु संख्यादिभेदः सर्वव्याधिष्वेकजातीयत्वेन न विशेषगमक इति इहैव कथ्यते ; निदानादिविशेपास्तु प्रतिव्याध विशियत्वेन नेह प्रपन्चेनोच्यन्ते , अत एव चात्रैवाध्याये सम्प्राप्ते
१५५
For Private and Personal Use Only