SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। ज्वनिदानम् स बलवान् भवति । यस्य ग्रीष्मे बलं तस्यारम्भकं पित्तमिति ग्रीष्मो ज्ञापयति। यस्य प्राषि बलं तस्यारम्भको वायुरिति प्रावृद् ज्ञापयति। वर्षासु यस्य बलं तस्यारम्भकः कफ इति वर्षा ज्ञापयन्ति । यस्य शरदि बलं तस्यारम्भकं पित्तमिति शरज्ञापयति । यस्य हेमन्ते बलं तस्यारम्भको वायुरिति ज्ञापयति हेमन्तः। एवं पूर्वाह्न यस्य बलं तस्यारम्भकः कफ इति ज्ञापयति पूर्वाह्नः। यस्य मध्याह्न बलं तस्यारम्भकं पित्तमिति मध्याह्नो ज्ञापयति । यस्यापराह्न बलं तस्यारम्भको वायुरित्यपराह्नो ज्ञापयति । एवं प्रदोष यस्य बलं तस्यारम्भकः कफ इति प्रदोषो ज्ञापयति। यस्य मध्यरात्र बलं तस्यारम्भकं पित्तमिति ज्ञापयति मध्यरात्रः। यस्य रात्रिशेष बलं तस्यारम्भको वायुरिति ज्ञापयति रात्रिशेषः। आहारकालस्तु भुक्तमात्रं पच्यमानकालः जीणकालश्च । यस्य भुक्तमात्रकाले बलं तस्यारम्भकः कफ इति ज्ञापयति भुक्तमात्रकालः। यस्य पच्यमानकाले बलं तस्यारम्भकं पित्तमिति झापयति पच्यमानकालः। यस्यान्न जीर्ण बलं तस्यारम्भको वायुरिति ज्ञापयति जीर्णकालः। इत्येवं सत्तानुकूलव्यापारः सम्प्राप्तिः । प्रतिरोगं वक्ष्यते हि सम्प्राप्तिः सव्वत्रच। तत्तत्स्थानसंश्रयिणो दोषाः पूब्वेरूपाणि कुर्वन्तः प्रज्ञापराधान्न प्रतिक्रियन्तेऽथ ते दृष्यानादाय स्वस्खक्रियाभिः परस्परं संयुज्य विभज्य समवेत्य सम्वत्रैवैकीभूय तत्तगाधिरूपेण जायन्त इति स स व्याधिर्भवतीतुच्यते। तदा स्वरूपतो जातः स स ब्याधिर्ग निष्क्रान्तो बाल इव क्रमेण वर्द्धमानो यथावातादिप्रकृत्यकृत्स्नलक्षणोऽभिव्यज्यते व्यज्यते चास्योत्तरकालं यथावलं प्रकृतिसमविषमसमवायतो लक्षणं किश्चिदन्यद वालस्य रेतःश्मश्रुदन्तादिवदिति। एवमेषा सम्प्राप्तियाधीनां प्रत्यक्षादिभिरुपलब्धौ कारणम् । यदि हेवं नाभविष्यन्न तदा ताद्रूप्येण प्रत्यक्षादिभिव्यशास्यत। सम्प्राप्तिश्चैषा व्याधीनां समानप्रसवात्मिका सामान्यभूता जातिराकृतिग्रहणा। स्वस्वा तु विशपभूता जातिर्जन्मोच्यते। प्रतिक्षणं हि भेदो विधिः, तत्र नियतो बलकालावशेष ऋत्वहोरात्राहारकालविधिनियतः। अत्र ऋतुविनियतो बलकालविशेषो यथा-श्लेष्मज्वरस्य वसन्तः ; अहोरात्रविनियतो यथा-श्लेष्मज्वरस्य पूर्वाह्नः प्रदोषश्च ; आहारविनियतो यथा-श्लेष्मज्वरस्य भुक्तमात्रकालः ; एवमादधन्नेयम् ; केचित् तु विधिशब्देन पूर्वकृतं कर्म ब्रुवते , अत्र कर्मनियतो बलकालविशेषः पच्यमानकर्मकाल एवं बोद्धव्यः ; एषु बलकालेषु यद्यपि ब्याधेरभूतप्रादुर्भावरूपा सम्प्राप्तिन भवति, तथापि व्याधिसन्ताने तत्कालं ब्याध्युत्पत्तौ च सम्प्राप्तिर्भिन्नैव भवतीति मन्तव्यम् ; इयञ्च कालविशेषप्राप्तया For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy