________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
निदानस्थानम्।
१२३१ समवेतानां पुनर्दोषाणामंशांशबलविकल्पो विकल्पोऽस्मिन्नर्थ।
बलकालविशेषः पुनाधीनामृत्वहोरात्राहारकालविधिविनियतो भवति ॥ ६॥
अथ विकल्पः। समवेतानामिति। रोक्ष्यादिगुणानां यावता गुणेन कुपितो यो यो दोषः कार्यमारभमाणः परस्परं समवैति, तस्य तस्य दोषस्य तावान् गुणोऽशस्तत्तत् प्रत्येकमंशांशस्ततो दोषाणां तेषां समवेतानां बलस्य विकल्पः विशेषेण कल्पना, कस्य दोषस्य किम्मितं बलं तस्यावधारणं कल्पनेत्यस्मिन्नर्थे विकल्प इति । एष विकल्पश्चिकित्साविशेषार्थं भवति । एवं विकल्पेन दोषवलं विज्ञायते तथा कालविशेषेणापि ।
ततो बलकालविशेषमाह-बलकालविशेषः पुनरिति । ऋतवो वसन्तादयः अहोरात्रः आहारश्च तेषां कालविधिना विनियतोऽवधारितो भवति । यस्य दोषस्य यो बलकालविशेषः स ऋखादिभिरवधाय्यते तदोषजव्याधेरपि तैः ऋखादिभिर्बलकालविशेषोऽवधार्यते। बसन्ते वलवांश्चेदाधिभवति, तप्राध्यारम्भकं कर्फ ज्ञापयति वसन्तः, कफजश्चेद, व्याधिवेसन्ते मृदुदारुणभेदेन ; तेन मृदुसाध्यं सुखसाध्यम्, दारुणसाध्यं कृच्छ्रसाध्यम्- रोहिणीवलयादि, तथा मृद्वसाध्यं याप्यं, दारुणासाध्यं प्रत्याख्येयमिति भेदचतुष्टयम् ; यद्यपि च संख्याप्राधान्यादिकृतोऽपि व्याधेर्विधिभेदो भवत्येव, तथापि संख्यादिभेदानां स्वसंज्ञयैव गृहीतत्वाद् गोवलीवईन्यायात् संख्याद्यगृहीते व्याधिप्रकारे च विधिशब्दो वर्तनीयः।
क्रमागतं विकल्पमाह-समवेतानामित्यादि। समवेतानां सर्वेषाम् । तेन एकशो द्विशो मिलितानाञ्च दोषाणां ग्रहणम् ; अंशमंशं प्रति बलम् अंशांशवलम्, तस्य विकल्प उत्कर्षापकर्परूपः अंशांशबलविकल्पः ; एवम्भूतो दोषाणाम् अंशांशविकल्पोऽस्मिन्नर्थ इति अस्मिन् प्रकरणे विकल्प उच्यते ; प्रकरणान्तरे तु विकल्पशब्देन भेदमात्रमुच्यते, यथा-'विकल्पो न त्वसाध्यानाम्' इत्यादाविति भावः। तत्र दोषाणामंशांशविकल्पो यथा-वाते प्रकुपितेऽपि कदाचिद् वातस्य शीतांशो बलवान् भवति, कदाचिल्लध्वंशः, कदाचिदक्षांशः, कदाचिल्लघुरुक्षांश इति ; एवं पित्तकफयोरप्युदाहार्योऽशांशविकल्पः ; अयज्ञांशांशविकल्पो दोषाणां शीतादि. गुणोद्भूतहेतुभेदाद् भवति।
बलकालविशेषमाह-बलेत्यादि। बलस्य कालो बलकालः, तस्य विशेषो वसन्तपूर्वाह्लादिर्बलकालविशेषः, ऋतवश्चाहोरात्राहारयोश्च काला ऋत्वहोरात्राहारकालाः, तेषां
For Private and Personal Use Only